वैशम्पायनः-
ततो ह्यचोदयत् कृष्णो युज्यतामिति दारुकम्
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः
तथैव चानुयात्राणि चोदयामास पाण्डवः
अर्जुनः-
सन्नह्यध्वं प्रयास्यामो नगरं गजसाह्वयम्
वैशम्पानः-
इत्युक्तास्सैनिकास्ते तु सज्जीभूता विशाम्पते
आचख्युस्सज्जमित्येवं पार्थायामिततेजसे
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ
तौ कुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशाम्पते
रथस्थं तु महातेजा वासुदेवं धनञ्जयः
पुनरेवाब्रवीद्वाक्यम् इदं भरतसत्तम
अर्जुनः-
त्वत्प्रसादाज्जयं प्राप्तो राज्ञा वृष्णिकुलोद्वह
निहताश्शत्रवश्चापि प्राप्तं राज्यमकण्टकम्
नाथवन्तश्च भवता पाण्डवा मधुसूदन
भवन्तं प्लवमासाद्य तीर्णास्स्म कुरुसागरम्
भक्तांस्त्वमाश्रितानस्मान् पालयामुत्र चेह च
विश्वकर्मन् नमस्तेऽस्तु विश्वात्मन् विश्वसम्भव
यथाऽहं त्वां विजानामि तथा हि भगवान् मम
त्वत्तेजस्सम्भवो नित्यं हुताशो मधुसूदन
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो
त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम्
त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम्
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम्
हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियाणि च
प्राणो वायुस्सततगः क्रोधो मृत्युस्सनातनः
प्रसादे चापि पद्मा श्रीर् नित्यं तव महामते
रतिस्तुष्टिर्धृतिः क्षान्तिस् त्वयि चेदं चराचरम्
त्वमेव हि युगान्तेषु निधनं प्रोच्यतेऽनघ
सुदीर्घेणापि कालेन न ते शक्या गुणा मया
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण
विदितो मे सुदुर्धर्ष नारदाद्देवलात् तथा
कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात्
त्वयि सर्वं समासक्तं त्वमेवैको जनार्दनः
यच्चानुग्रहसंयुक्तम् एतदुक्तं त्वयाऽनघ
एतत् सर्वमहं सम्यक् करिष्यामि जनार्दन
इदं चाद्भुतमव्यग्रं कृतमस्मत्प्रियेप्सया
यत् पापा निहतास्सङ्ख्ये कौरव्या धृतराष्ट्रजाः
त्वया दग्धं हि तत् सैन्यं मया विजितमाहवे
भवता तत् कृतं कर्म येनावाप्तो जयो मया
दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः
कर्णस्य च वधोपायो यथावत् सम्प्रदर्शितः
सैन्धवस्य च पापस्य भूरिश्रवस एव च
तस्मात् त्वमेव सञ्चिन्त्य हितं कुरु यथा तथा
अहं च प्रीयमाणोऽस्मि त्वया देवकिनन्दन
यदुक्त तत् करिष्यामि न हि मेऽस्ति विचारणा
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम्
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ
रुचितं हि ममाप्येतद् द्वारकागमनं प्रति
द्रष्टासि नचिरादेव मातुलं मधुसूदन
बलदेवं च दुर्धर्षं तथाऽन्यान् वृष्णिपुङ्गवान्
वैशम्पायनः-
एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम्
तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम्
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम्
दृष्टवन्तौ महाराज धृतराष्ट्रं जनेश्वरम्
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम्
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ
धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम्
गान्धारीं च महाप्रज्ञां पृथां कृष्णां च भामिनीम्
सुभद्रा चापि तास्सर्वा भरतानां स्त्रियस्तथा
दृष्टवन्तौ स्थितास्सर्वा गान्धारीं परिवार्य ते
ततस्समेत्य राजानं धृतराष्ट्रमरिन्दमौ
निवेद्य नामधेये स्वे वन्देतां चरणौ ततः
गान्धार्याश्च पृथायाश्च धर्मराजस्य धीमता
भीमस्य च ववन्दाते तथा पादौ महात्मनः
क्षत्तारं चाभिसम्पूज्य पृष्ट्वा कुशलमव्ययम्
परिष्वज्य महात्मानं वेश्यापुत्रं महारथम्
तैस्सार्धं नृपतिं वृद्धं ततस्तौ पर्युपासताम्
ततो निशि महाराजो धृतराष्ट्रो जनेश्वरान्
जनार्दनं च मेधावी व्यसर्जयत वै गृहान्
तेऽनुज्ञाता नृपतिना ययुस्स्वं स्वं निवेशनम्
धनञ्जयगृहानेव ययौ कृष्णस्तु वीर्यवान्
तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः
कृष्णस्सुष्वाप मेधावी धनञ्जयसहायवान्
प्रभातायां तु शर्वर्यां कृत्वासर्वाह्निकक्रियौ
धर्मराजस्य भवनं जग्मतुः परमार्चितौ
यत्रास्ते तु सहामात्यो धर्मराजो महामनाः
ततस्तु तत् प्रविश्याथ ददृशाते महाबलौ
धर्मराजं तमासीनं देवराजमिवाश्विनौ
तौ समासाद्य राजानं वार्ष्णेयकुरुपुङ्गवौ
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन वै
ततस्स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ
प्रोवाच वदतां श्रेष्ठौ वचनं राजसत्तमः
युधिष्ठिरः-
विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ
ब्रूतं कर्तास्मि सर्वं वां न चिरान्मा विचार्यताम्
वैशम्पायनः-
इत्युक्तः फल्गुनस्तत्र धर्मराजानमब्रवीत्
विनीतवदुपागम्य वाक्यं वाक्यविशारदः
अर्जुनः-
अयं चिरोषितो राजन् वासुदेवः प्रतापवान्
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति
स गच्छेत्वभ्यनुज्ञातो भवता यदि मन्यसे
आनर्तनगरीं वीरस् तदनुज्ञातुमर्हसि
युधिष्ठिरः-
पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मदुसूदन
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं विभुम्
रोचते मे महाबाहो गमनं तव केशव
मातुलश्चिरदृष्टस्ते त्वया देवी च देवकी
मातुलं वसुदेवं त्वं बलदेवं च माधव
पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः
स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम्
फाल्गुनं नकुलं चैव सहदेवं च माधव
आनर्तानवलोक्य त्वं पितरं च महाभुजम्
वृष्णींश्च पुनरागच्छेर् हयमेधे ममानघ
सङ्गच्छ रत्नान्यादाय विविधानि वसूनि च
यच्चप्यन्यन्मनोज्ञं ते तच्चाप्यादत्स्व सात्वत
इयं च वसुधा सर्वा प्रसादात् तव माधव
अस्मानुपागता वीर निहताश्चापि शत्रवः
स्वर्गापवर्गविषयं त्वद्भक्तानां न दुर्लभम्
संसारगहने चेद्धपापाग्नेः प्रशमाम्बुद
वैशम्पायनः-
एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे
वासुदेवः वरः पुंसाम् इदं वचनमब्रवीत्
श्रीभगवान्-
तवैव रत्नानि धनं च केवलं धरा तु कृत्स्ना तु महाभुजाद्य वै
यदस्ति चान्यद्द्रविणं गृहेषु मे त्वमेव तस्येश्वर नित्यमीशिषे
वैशम्पायनः-
तथेत्यथोक्तः प्रतिपूजितस्तदा गदाग्रजो धर्मसुतेन वीर्यवान्
पितृष्वसारं त्वभिवाद्य सात्यकिं सम्पूजितयंश्चाप्यगमत् प्रदक्षिणम्
तया स सम्यक् प्रतिपूजितस्तदा तथैव सर्वैर्विदुरादिभिस्ततः
विनिर्ययौ नागपुराद्गदाग्रजो रथेन दिव्येन चतुर्युजा हरिः
रथे सुभद्रामधिरोप्य भामिनीं युधिष्ठिरस्यानुमते जनार्दनः
पितृष्वसुश्चापि जनार्दनस्तदा विनिर्ययौ पौरजनाभिसत्कृतः
तमन्वयाद्वानरवर्यकेतनस् ससात्यकि र्माद्रवतीसुतावपि
अगाधबुद्धिर्विदुरश्च माधवं स्वयं च भीमो गजराजविक्रमः
निवर्त्य वैतान् कुरुराष्ट्रवर्धनांस् ततश्च सर्वान् विदुरं च वीर्यवान्
जनार्दनो दारुकमाह सत्वरः प्रचोदयाश्वानिति सात्यकिं तदा
ततो ययौ शत्रुगणावमर्दनश् शिनिप्रवीरानुगतो जनार्दनः
यथा निहत्यारिगणं शतकतुर् दिवं तथाऽऽनर्तपुरीं प्रतापवान्