ब्रह्मा-
भूतानामथ पञ्चानां सर्वेषामीश्वरं मनः
नियमे च विसर्गे च भूतानां मन एव च
अधिष्ठातृ मनो नित्यं भूतानां महतां तथा
बुद्धिमैश्वर्यमाचष्टे क्षेत्रज्ञस्सर्वमुच्यते
इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः
इन्द्रियाणि मनो बुद्धिः क्षेत्रज्ञे युज्यते सदा
भूतबुद्धिसमायुक्तं बुद्धिसंयमनं रथम्
समारुह्य स भूतात्मा समन्तात्परिधावति
इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च
बुद्धिसंयमनो नित्यं महान् ब्रह्ममयो रथः
एवं यो वेत्ति विद्वान् वै सदा ब्रह्ममयं रथम्
स धीरस्सर्वलोकेषु न मोहमधिगच्छति
अव्यक्तादिविशेषान्तं चरस्थावरसङ्कुलम्
चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम्
नदीपर्वतजालैश्च सर्वतः परिभूषितम्
विविधाभिस्तथाऽद्भिश्च सततं समलङ्कृतम्
अजितं सर्वभूतानां सर्वप्राणभृतां गतिः
एतद्ब्रह्मपदं नित्यं क्षेत्रज्ञो यत्र तिष्ठति
लोकेऽस्मिन् यानि भूतानि स्थावराणि चराणि च
तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः
गुणेभ्यः पञ्च भूतानि एष भूतसमुच्छ्रयः
देवा मनुष्या गन्धर्वाः पिशाचोरगराक्षसाः
सर्वे स्वभावतस्सृष्टा न क्रियाभ्यो न कारणात्
एते विश्वसृजो विप्रा जायन्तीह पुनः पुनः
तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु
प्रलीयन्ते यथाकालम् ऊर्मयस्सागरे यथा
विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतानि गच्छति
भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत् परां गतिम्
प्रजापतिरिदं सर्वं तपसैवासृजत् प्रभुः
तथैव देवानृषयस् तपसा प्रतिपेदिरे
तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः
औषधान्यगदादीनि नानाविद्याश्च सर्वशः
तपसैव प्रसिद्ध्यन्ति तपोमूलं हि साधनम्
यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम्
तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्
सुरापो ब्रह्महा स्तेनो भ्रूणहा गुरुतल्पगः
तपसैव सुतप्तेन मुच्यते किल्बिषात् ततः
मनुष्याः पितरो देवाः पशवो मृगपक्षिणः
यानि चान्यानि भूतानि चराणि स्थावराणि च
तपःपरायणा नित्यं सिद्ध्यन्ते तपसा सदा
तथैव तपसा देवा महाभागा दिवं गताः
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः
अहङ्कारसमायुक्तास् ते सकाशे प्रजापतेः
ध्यानयोगेन शुद्धेन निर्ममा निरहङ्कृताः
आप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम्
ध्यानयोगमुपागम्य प्रसन्नमतयस्सदा
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवित्तमाः
ध्यानयोगादुपागम्य निर्ममा निरहङ्कृताः
अव्यक्तं प्रविशन्तीह महतां लोकमुत्तमम्
अव्यक्तादेव सम्भूतास् समयज्ञो गतः पुनः
तमोरजोभ्यां निर्मुक्तस् सत्वमास्थाय केवलम्
विर्मुक्तस्सर्वपापेभ्यस् सर्वं त्यजति निष्कलः
क्षेत्रज्ञ इति तं विद्याद् यस्तं वेद स वेदवित्
चित्तं चित्तादुपागम्य मुनिरासीत संयतः
यच्चित्तस्तन्मना भूत्वा ग्राह्यमेतत् सनातनम्
अव्यक्तादिविशेषान्तम् अविद्यालक्षणं स्मृतम्
निबोधत तथा ज्ञानं गुणैर्लक्षणमित्युत
द्व्यक्षरस्तु भवेन्मृत्युस् त्र्यक्षरं ब्रह्म शाश्वतम्
ममेति हि भवेन्मृत्युर् न ममेति हि शाश्वतम्
कर्म केचित् प्रशंसन्ति मन्दबुद्धितया नराः
ये तु बुद्ध्या महात्मानो न प्रशंसन्ति कर्म ते
कर्मणा जायते जन्तुर् मूर्तिमान् षोडशात्मकः
पुरुषं व्रजते विद्या तद्ग्राह्यममृताशिनम्
तस्मात् कर्मसु निस्स्नेहा ये केचित् पारदर्शिनः
विद्यामयोऽयं पुरुषो न तु कर्ममयस्स्मृतः
अपूर्वममृतं नित्यं य एनमभिचारिणम्
य एनं विन्देते तात्मानम् अमेयमविनाशिनम्
अग्राह्यो ह्यमृतो भवति स एभिः कारणैर्ध्रुवम्
अपोह्य सर्वसङ्कल्पान् संयम्यात्मानमात्मनि
स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते
प्रसादेन च सत्वस्य प्रसादं समवाप्नुयात्
लक्षणं हि प्रसादस्य यथा स्यात् स्वप्नदर्शनम्
गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः
प्रवृत्तयश्च यास्सर्वाः पश्यन्ति परिणामजाः
एषा गतिर्विरक्तानाम् एष धर्मस्सनातनः
एषा ज्ञानवतां प्राप्तिर् एतद्वृत्तमनिन्दितम्
समेन सर्वभूतेषु निस्पृहेण निराशिषा
शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना
एतद्वस्सर्वमाख्यातं मया विप्रर्षिसत्तमाः
एवमाचरत क्षिप्रं ततस्सिद्धिमवाप्स्यथ
गुरुः-
इत्युक्ता गुरुणा ते तु ब्रह्मणा मुनयस्तथा
कृतवन्तो महात्मानस् ततो लोकमवाप्नुवन्
त्वमप्येवं महाभाग यथोक्तं ब्रह्मणो वचः
सम्यगाचर शुद्धात्मंस् ततस्सिद्धिमवाप्स्यसि
श्रीभगवान्-
इत्युक्तस्स तदा शिष्यो गुरुणा धर्ममुत्तमम्
चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान्
कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह
तत् पदं समनुप्राप्तो यत्र गत्वा न शोचति
अर्जुनः-
को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन
श्रोतव्यं चेन्मयैतद्वै तन्ममाचक्ष्व मे विभो
श्रीभगवान्-
अहं गुरुर्महाबाहो मुनिश्शिष्यो हि विद्धि मे
त्वत्प्रीत्या सर्वमेतद्वै कथितं ते धनञ्जय
मयि चेदस्ति ते भक्तिर् नित्यं कुरुकुलोद्वह
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत
ततस्त्वं सम्यगाचारो धर्मेऽस्मिन् कुरुनन्दन
सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम्
पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते
मया तव महाबाहो तस्मादत्र मनः कुरु
मया तु भरतश्रेष्ठ चिरदृष्टः पिता प्रभुः
तमहं द्रष्टुमिच्छामि सम्मते तव फल्गुन
वैशम्पायनः-
अर्जुनः-
इत्युक्तवचनं कृष्णं प्रत्युवाच धनञ्जयः
यदिष्टं कुरु सर्वेस्यापीश्वरोऽस्मान् प्रपालय
नमस्ते सर्वलोकात्मन् नारायण परात् पर
मनोमलात् तपोऽशक्यं कर्म चाविद्यया तथा
दानमप्यर्थदोषेण नाम तस्मात् कलौ स्मरेत्
यदि गन्तुं कृता बुद्धिर् वासुदेव नमोऽस्तु ते
गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै
समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम्
समनुज्ञाप्य दुर्धर्षं स्वां पुरीं यातुमर्हसि