ब्रह्मा-
हन्त वस्सम्प्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः
समस्तमिह तत्त्वेन श्रुत्वा चैवावधार्यताम्
अहिंसा सर्वभूतानाम् एतत् कृत्यतमं मतम्
एतत् पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम्
ज्ञानं निश्श्रेयसं प्राहुर् वृद्धा निश्चयदर्शिनः
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः
हिंसापराश्च लोके ये ये च नास्तिकवृत्तयः
लोभमोहसमायुक्तास् ते वै निरयगामिनः
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः
तेऽस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः
कुर्वते ये तु कर्माणि श्रद्धधाना विपश्चितः
अनाशीर्योगसंयुक्तास् ते धीरास्साधुदर्शिनः
अतः परं प्रवक्ष्यामि सत्वक्षेत्रज्ञयोर्यथा
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः
विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते
विषयी पुरुषो नित्यं सत्वं च विषयस्स्मृतः
व्याख्यातं पूर्वकल्पेन मशकोदुम्बरौ यथा
भुज्यमानं न जानीते नित्यं सत्वमचेतनम्
ज्ञात्वैव तु विजानीते यो भुङ्क्ते यच्च भुज्यते
अनित्यं द्वन्द्वसंयुक्तं सत्वमाहुर्गुणात्मकम्
निर्द्वन्द्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः
समासज्ञानतत्त्वे च यथा सर्वत्र दृश्यते
न सज्जते सदा सत्वम् आपः पुष्करपर्णवत्
सर्वैरपि गुणैर्विद्वान् व्यतिषक्तो न लिप्यते
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः
एवमेवाप्यसंयुक्तः पुरुषस्स्यान्न संशयः
द्रव्यमात्रमभूत् सत्वं पुरुषस्येति निश्चयः
यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा
यथा प्रदीपमादाय कश्चित् तमसि गच्छति
तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः
यावद्द्रव्यं गुणस्तावत् प्रदीपस्सम्प्रकाशते
क्षीणे द्रव्ये गुणे ज्योतिर् अन्तर्धानाय गच्छति
व्यक्तस्सत्वगुणस्त्वेवं पुरुषो व्यक्तमुच्यते
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः
सहस्रेणापि दुर्मेधा न बुद्धिमधिगच्छति
चतुर्थेनाप्यथांशेन बुद्धिमान् सुखमेधते
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते
यथाऽध्वानमपाथेयः प्रपन्नो मानवः क्वचित्
क्लेशेन याति महता विनश्यत्यन्तराऽपि वा
तथा कर्मसु विज्ञेयं फलं भवति वा न वा
पुरुषस्यात्मनिश्श्रेयश् शुभाशुभनिदर्शनम्
यथा च दीर्घमध्वानं पद्भ्यामेव प्रवर्तते
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः
तमेव च यथाऽध्वानं रथेनैवाशुगामिना
यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः
ऊच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम्
रथेन रथिनं पश्येत् क्लिश्यमानमचेतनम्
यावद्रथपथस्तावद् रथेन स तु गच्छति
क्षीणे रथपदे प्राज्ञो रथमुत्सृज्य गच्छति
एवं गच्छति मेधावी तत्त्वज्ञो मिक्षमार्गवित्
समाज्ञाय महाबुद्धिर् उत्तरादुत्तरोत्तरम्
यथा महार्णवं घोरम् अप्लवस्सम्प्रगाहते
बाहुभ्यामेव सम्मोहाद् वधमिच्छत्यसंशयम्
नावा यायी यथा प्राज्ञो विभागज्ञस्तरित्रवान्
अश्रान्तस्सलिलं गाहेत् क्षिप्रं सन्तरते ध्रुवम्
तीर्णो गच्छेत् परं पारं नावमुत्सृज्य निर्ममः
व्याख्यातं पूर्वकल्पेन यथा रथपदातिनोः
स्नेहात् सम्मोहमापन्नो नावि दाशो यथा तथा
ममत्वेनाभिभूतस्संस् तत्रैव परिवर्तते
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम्
तथैव रथमारुह्य नाप्सु चर्या विधीयते
एवं कर्मकृतं वृत्तं विविधस्थं पृथक् पृथक्
यथा कर्मकृतं लोके तथा तदुपपद्यते
यन्नैव गन्धि नो रस्यं न रूपस्पर्शशब्दवत्
मन्यते न मनो बुद्ध्या तत् प्रधानं प्रचक्षते
तत्र प्रधानमव्यक्तम् अव्यक्तस्य गुणो महान्
महान् प्रधानभूतस्य गुणोऽहङ्कार एव च
अहङ्कारात् प्रधानस्य महाभूतकृतो गुणः
पृथक्त्वेन च भूतानां विषया वै गुणास्स्मृताः
बीजधर्मं यथाऽव्यक्तं तथैव प्रसवात्मकम्
बीजधर्मा महानात्मा प्रसवश्चेति नश्श्रुतम्
बीजधर्मा त्वहङ्कारः प्रसवश्च पुनःपुनः
तथैव बीजधर्माणि महाभूतानि पञ्च वै
बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते
विशेषाः पञ्चभूतानां तेषां वित्त विशेषणम्
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते
त्रिगुणं ज्योतिरित्याहुर् आपश्चापि चतुर्गुणाः
पृथ्वी पञ्चगुणा ज्ञेया तत्र स्थावरजङ्गमाः
सर्वभूतकरी देवी शुभाशुभनिदर्शिना
शब्दस्स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः
एते पञ्च गुणा भूमेर् विज्ञेया द्विजसत्तमाः
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून् गुणान्
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा
निर्हारी संहतस्स्निग्धो रूक्षो विशद एव च
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत
शब्दस्स्पर्शस्तथा रूपं रसश्चापां गुणास्स्मृताः
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा
एवं षड्विधविस्तारो रसो वारिसमुद्भवः
शब्दस्स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम्
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा
ह्रस्वं दीर्घं तथा स्थूलं चतुरश्राणुवृत्तकम्
एवं द्वादशविस्तारं ज्योतिषां रूपमिष्यते
विज्ञेयं ब्राह्मणैर्नित्यं र्धर्मज्ञैस्सत्यवादिभिः
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते
वायोश्चापि गुणस्स्पर्शस् स्पर्शश्च बहुधा स्मृतः
उष्णश्शीतस्सुखो दुःखस् स्निग्धो विशद एव च
कठिनश्चिक्कणश्श्लक्ष्णः पिच्छिलो दारुणो मृदुः
एवं द्वादशविस्तारो वायव्यो गुण उच्यते
विधिवद्ब्राह्मणैस्सिद्धैर् धर्मज्ञैस्तत्त्वदर्शिभिः
तत्रैकगुण आकाशश् शब्द इत्येव स स्मृतः
तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून् गुणान्
षड्जर्षभस्सगान्धारो मध्यमः पञ्चमस्स्मृतः
अतः परं तु विज्ञेयो निषादो धैवतस्तथा
इष्टश्चानिष्टशब्दश्च संहतः प्रतिभानवान्
एवं बहुविधो ज्ञेयश् शब्द आकाशसम्भवः
आकाशमुत्तमं भूतम् अहङ्कारस्ततः परः
अहङ्कारात् परा बुद्धिर् बुद्धेरात्मा ततः परः
तस्मात्तु परमव्यक्तम् अव्यक्तात् पुरुषः परः
परावरज्ञो भूतानां यं प्राप्याऽऽनन्त्यमश्नुते