ब्रह्मा-
केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं वनम्
केचित् परुषमव्यक्तं केचित् परमनामयम्
मन्यन्ते सर्वमप्येतद् अव्यक्तप्रभवाव्ययम्
उच्छ्वासमात्रमपि चेद् योऽन्तकाले समो भवेत्
आत्मानमुपसंयम्य सोऽमृतत्वाय कल्पते
निमेषमात्रमपि च पश्यत्यात्मानमात्मनि
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम्
प्राणायामैरथ प्राणान् संयम्य स पुनःपुनः
दशद्वादशभिर्वाऽपि चतुर्विंशात् परं तु तत्
एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति
अव्यक्तात् सत्वमुद्रिक्तम् अमृतत्वाय कल्पते
सत्वात् परतरं नान्यत् प्रशंसन्तीह तद्विदः
अनुमानाद्विजानीमः पुरुषं सत्वमाश्रितम्
न शक्यमन्यथा गन्तुं पुरुषं द्विजसत्तमाः
क्षमा धृतिरहिंसा च सन्तोषस्सत्यमार्जवम्
ज्ञानं त्यागोऽथ सन्न्यासस् सात्विकं व्रतमिष्यते
एतेनैवानुमानेन मन्यन्तेऽथ मनीषिणः
सत्वं च पुरुषश्चैव तत्र नास्ति विचारणा
आहुरेके महात्मानो ये ज्ञानेषु प्रतिष्ठिताः
क्षेत्रज्ञसत्वयोरैक्यम् इत्येतन्नोपपद्यते
पृथग्भूतं ततो नित्यम् इत्येतदविचारितम्
पृथग्भावश्च विज्ञेयस् सहजश्चापि तत्त्वतः
तथा चैकत्वनानात्वम् इष्यते विदुषां नयः
मशकोदुम्बरस्यैक्यं पृथक्त्वमपि दृश्यते
मत्स्योदके यथैव स्याद् अप्सु योगस्तथाऽनयोः
सम्बन्धस्तोयबिन्दूनां पर्णैः कोकनदस्य च
गुरुः-
इत्युक्तवन्तस्ते विप्रास् तदा लोकपितामहम्
पुनस्संशयमापन्नाः पप्रच्छुर्मुनिसत्तमाः