ब्रह्मा-
सन्न्यासं तप इत्याहुर् वृद्धा निश्चितदर्शिनः
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः
अतिदूरात्मकं ब्रह्म वेदविद्याव्यपाश्रयम्
निर्द्वन्द्वं निर्गुणं नित्यम् अचिन्त्यं गुह्यमुत्तमम्
ध्यानेन तपसा चैव धीराः पश्यन्ति तत्परम्
निर्णिक्तमनसः पूता व्युत्क्रान्तरजसोऽमलाः
तपसा क्षेममध्वानं गच्छन्तीति मनीषिणः
सन्न्यासनिरता नित्यं ये च ब्रह्मविदो जनाः
तपः प्रदीप इत्याहुर् आचारो धर्मसाधकः
ज्ञानं त्वेव परं विद्मस् सन्न्यासं तप उत्तमम्
यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात्
सर्वभूतस्थमात्मानं स सर्वविदिहोच्यते
यो विद्वान् सहवासं च विवासं चैव पश्यति
तथैवैकत्वनानात्वे स दुःखात् प्रतिमुच्यते
यो न कामयते किञ्चिन्न किञ्चिदिति मन्यते
इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते
प्रधानगुणतत्त्वज्ञस् सर्वभूतविधानवित्
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः
निर्द्वन्द्वो निर्नमस्कारो निस्स्वधाकार एव च
निर्द्वन्द्वं निर्गुणं नित्यं प्रशमेनैव गच्छति
हित्वा गुणमयं सर्वं कर्म जन्तुश्शुभाशुभम्
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान्
महाहङ्कारविटप इन्द्रियान्तरकोटरः
महाभूतविशाखश्च विशेषप्रतिशाखवान्
सदापर्णस्सदापुष्पश् शुभाशुभफलोदयः
आजीव्यस्सर्वभूतानां ब्रह्मवृक्षस्सनातनः
एनं छित्त्वा च भित्त्वा च ज्ञानेन परमासिना
भित्वा चामरतां प्राप्य जह्याद्वै मृत्युजन्मनी
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः
द्वावेतौ पक्षिणौ नित्यौ सङ्ख्येयौ चाप्यचेतनौ
एताभ्यां तु परो यस्स चेतनावानिति स्मृतः
अचेतनस्सत्वसङ्ख्याविमुक्तस् सत्त्वात् परं चेतयतेऽन्तरात्मा
स क्षेत्रज्ञस्सत्वसङ्घातबुद्धिर् गुणाधिको मुच्यते मृत्युपाशात्