ब्रह्मा-
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि
अधीतवान् यथाशक्ति तथैव ब्रह्मचर्यवान्
स्वधर्मनिरतो विद्वान् सर्वेन्द्रिययतो मुनिः
गुरोः प्रियहिते युक्तस् सत्यधर्मपरश्शुचिः
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन्
हविष्यभैक्ष्यभुग्वाऽपि स्थानासनविहारवान्
द्विकालमग्निं जुहुयाच् छुचिर्भूत्वा समाहितः
धारयेत सदा दण्डं बैल्वं पालाशमेव वा
क्षौमं कार्पासिकं वाऽपि मृगाजिनमथापि वा
सर्वङ्काषायरक्तं स्याद् वासो वाऽपि द्विजस्य ह
मेखला च भवेन्मौञ्जी जटी नित्योदकी तथा
यज्ञोपवीती स्वाध्यायी अलुप्तनियमव्रतः
पूताभिस्सपवित्राभिर् अद्भिर्दैवततर्पणम्
भावेन नियमं कुर्वन् ब्रह्मचारी प्रशस्यते
एवं युक्तो जयेत् स्वर्गम् ऊर्ध्वरेतास्समाहितः
न संसरति जातीषु परमं स्थानमाश्रितः
संस्कृतस्सर्वसंस्कारैस् तथैव ब्रह्मचर्यवान्
ग्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत्
चर्मवल्कलसंवीतस् सायं प्रातरुपस्पृशेत्
अरण्यगोचरो नित्यं न ग्रामं प्रविशेत् पुनः
अर्चयन्नतिथीन् काले दत्त्वा चापि प्रतिश्रयम्
फलपत्राचयैर्वन्यैश् श्यामाकेन च वर्तयन्
स नित्यमुदकं वायुं सर्वं वाऽन्यं तथा तृणम्
प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः
आमूलफलशाकाद्यैर् अर्चेदतिथिमागतम्
यद्भक्षस्स्यात् ततो दद्याद् भिक्षां नित्यमतन्द्रितः
देवतातिथिपूजां च कृत्वा भुञ्जीत वाग्यतः
अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः
दान्तो मैत्रः क्षमायुक्तः केशश्मश्रूणि धारयेत्
जुह्वन् स्वाध्यायशीलश्च सत्यधर्मपरायणः
न्यक्तदेहस्सदा दक्षो वने नित्यं समाहितः
एवं युक्तो व्रजेत् स्वर्गं वानप्रस्थो जितेन्द्रियः
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽपि वा पुनः
य इच्छेन्मोक्षमादातुम् उत्तमां वृत्तिमाव्रयेत्
अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्
सर्वभूतहितो मैत्रस् सर्वेन्द्रिययतो मुनिः
अयाचितमसङ्क्लृप्तम् उपपन्नं यदृच्छया
जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम्
धर्मलब्धं तथाऽश्नीयान्न काममनुवर्तयेत्
ग्रासादाच्छादनादन्यन्न गृह्णीयात् कदाचन
यावदाहारयेत् तावत् प्रतिगृह्णीत नान्यथा
परेभ्यो न प्रतिग्राह्यं न चादेयं कथञ्चन
दद्यात्तु सर्वभूतानां संविभज्य समाचरेत्
नाददीत परस्वानि न गृह्णीयान्न याचयेत्
न किञ्चिद्विषयं भुक्त्वा तस्मै संस्पृहयेत् पुनः
मृदमापस्तथा स्नानं पत्रं पुष्पं फलानि च
असंवृतानि गृह्णीयात् प्रवृत्तानि ह कार्यवान्
न शिल्पजीविकां जीवेद् द्विरन्नं नैव कारयेत्
न द्वेष्टा नोपदेष्टा च भवेद्धर्मपस्कृतः
श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत्
मुधावृत्तिरसक्तिश्च सर्वभूतैरसंवृतः
कृत्वा मौनं चरेद्भैक्ष्यं विधूमे भुक्तवज्जने
वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षिवत्
न लाभे च पहृष्येत नालाभे विमना भवेत्
मात्राशी कालमाकाङ्क्षंश् चरेद्भैक्ष्यं समाहितः
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः
अभिपूजितलाभाद्धि विजुगुप्सेत पण्डितः
शुक्तान्यम्लानि तिक्तानि कषायकटुकानि च
नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा
यात्रामात्रं च भुञ्जीत केवलं प्राणधारणम्
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित्
न चान्यमनुवीक्षेत भिक्षमाणः कथञ्चन
न सन्निकाशयेद्धर्मं विविक्ते विरजाश्चरेत्
शून्यागारमरण्यं वा वृक्षमूलं नदीं तथा
प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम्
ग्रामैकरात्रोकप ग्रीष्मे वर्षास्वेकत्र वा वसेत्
अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम्
दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत्
सञ्चयांश्च न कुर्वीत स्नेहभागं च वर्जयेत्
पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मन्त्रवित्
उपस्पृशेदुद्धृताभिर् अद्भिश्चैव नरोत्तमः
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च
अक्रोधश्चानसूया च दमो नित्यमपैशुनम्
अष्टस्वेतेषु युक्तस्सयाद् व्रतेषु नियतेन्द्रियः
अपाप्मानं शठं वृत्तम् अजिह्मं नित्यमाचरेत्
आशीर्युक्तानि सर्वाणि हिंसायुक्तानि यानि च
लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत्
सर्वनेतानतिक्रम्य लघुमात्रपरिग्रहः
समस्सर्वेषु भूतेषु स्थावरेषु चरेषु च
परं नोद्वेजयेत् कञ्चिन्न च कस्यच्चिदुद्विजेत्
विश्वास्यस्सर्वभूतानाम् एकाग्र्यं मोक्ष उच्यते
अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत्
वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः
न चक्षुषा न मनसा न वाचा दूषयेत् क्वचित्
न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत्
इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः
क्षीणेन्द्रियमनोबुद्धिर् निरीक्षेत जितेन्द्रियः
निर्द्वन्द्वो निर्नमस्कारो निस्स्वाहाकार एव च
निर्ममो निरहङ्कारो निर्योगक्षेम एव च
निराशीस्सर्वभूतेषु निरासङ्गो निराश्रयः
सर्वज्ञस्सर्वतोमुक्तो मुच्यते नात्र संशयः
अपादपाणिपृष्ठं तद् अशिरस्कमनूदरम्
प्रहीणगुणकर्माणं केवलं विमलं स्थिरम्
अगन्धमरसस्पर्शम् अरूपाशब्दमेव च
अनस्थिमनसृङ्मज्जम् अमांसमपि चैव ह
अचिन्त्यमव्ययं दिव्यं कूटस्थमपि नित्यदा
सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः
न तत्र क्रमते बुद्धिर् नेन्द्रियाणि न देवताः
वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः
यत्र ज्ञानवतां प्राप्तिर् अलिङ्गग्रहणे स्मृता
तस्मादलिङ्गो धर्मज्ञो धर्मवृत्तमुनुव्रत
गूढधर्माश्रितो विद्वान् अज्ञानचरितं चरेत्
अमूढो मूढरूपेण चरेद्धर्ममदूषयन्
यथैनमवमन्येरन् परे सततमेव हि
तथावृत्तश्चरेद्धर्मं सतां धर्ममदूषयन्
योऽप्येवं वृत्तसम्पन्नस् स मुनिश्श्रेष्ठ उच्यते
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च
मनो बुद्धिमथात्मानम् अव्यक्तं पुरुषं तथा
सर्वमेतत् प्रसङ्ख्याय सम्यक् सम्पूज्य निर्मलः
ततस्स्वर्गमवाप्नोति विमुक्तस्सर्वबन्धनैः
एतादेवान्तवेलायां परिसङ्ख्याय तत्त्ववित्
ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः
निर्मुक्तस्सर्वसङ्गेभ्यो वायुराकाशगो यथा
क्षीणकोशो निरातङ्कः प्राप्नोति परमां गतिम्