य उत्पन्नो महान् पूर्वम् अहङ्कारस्स उच्यते
अहमित्येव सम्भूतो द्वितीयस्सर्ग उच्यते
अहङ्कारश्च भूतादिर् वैकारिक इति स्मृतः
तैजसश्चेतना धातुः प्रजासर्गः प्रजापतिः
देवानां प्रभवो देवो मनसश्च त्रिलोककृत्
अहिमित्येव तत् सर्वम् अभिमन्ता स उच्यते
अध्यात्मज्ञानिनां तेषां मुनीनां भावितात्मनाम्
स्वाध्यायव्रतसिद्धानाम् एष लोकस्सनातनः
अहङ्कारेणाहरतो गुणानिमान् भूतादिरेवं सृजते स भूतकृत्
वैकारिकस्सर्वमिदं विचेष्टते स्वतेनसा रञ्जयते जगत् तथा