ब्रह्मा-
नै व शक्या मया वक्तुं पृथक्त्वेनैव सर्वशः
अविच्छिन्नानि दृश्यन्ते रजस्सत्वं तमस्तथा
अन्योन्येनानुरज्यन्ते त्वन्योन्येनानुजीविनः
अन्योन्यापाश्रयास्सर्वे त्वन्योन्येनानुवर्तिनः
यावत् सत्वं रजस्तावद् वर्तते नात्र संशयः
यावत् तमश्च सत्वं च रजस्तावदिहोच्यते
संहत्य कुर्वते यात्रां सहितास्सङ्घचारिणः
सङ्घातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः
उद्रेकव्यतिरिक्तानां तेषामन्योन्यवर्तिनाम्
वर्तते तद्यथाऽन्यूनं व्यतिरिक्तं च सर्वशः
व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत्
अल्पं तत्र रजो ज्ञेयं सत्वमल्पतरं तथा
उद्रिक्तं तु रजो यत्र मध्यस्रोतोगतं भवेत्
अल्पं तत्र तमो ज्ञेयं सत्वं चाल्पतरं तथा
उद्रिक्तं तु यदा सत्वम् ऊर्ध्वस्रोतोगतं भवेत्
अल्पं तत्र तमो ज्ञेयं रजश्चाल्पतरं तथा
सत्वं वैकारिकी योनिर् इन्द्रियाणां प्रकाशिका
न हि सत्वात् परो भावः कश्चिदन्यो विधीयते
ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः
जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः
तमश्शूद्रे रजः क्षत्रे ब्राह्मणे सत्वमुत्तमम्
इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः
दूरादपि हि दृश्यन्ते सहितास्सङ्घचारिणः
तमस्सत्वं रजश्चैव पृथक्त्वं नानुशुश्रुम
दृष्ट्वा चादित्यमुद्यन्तं कुचोराणां भयं भवेत्
अध्वगाः परितप्येेरंस् तृष्णार्ता दुःखभागिनः
आदित्यस्सत्वमुद्दिष्टः कुचोरास्तु तथा तमः
परितापोऽध्वगानां च रजसो गुण उच्यते
प्राकाशस्सत्वमादित्यस् सन्तापो रजसो गुणः
उपप्लवस्तु विज्ञेयस् तामसस्तस्य पर्वसु
एवं ज्योतिष्षु सर्वेषु प्रवर्तन्ते गुणास्त्रयः
पर्यायेण च वर्न्तते तत्र तत्र तथा तथा
स्थावरेषु तु भूतेषु तिर्यग्भावगतं तमः
राजसास्तु विवर्धन्ते स्नेहभावस्तु सात्विकः
अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते
मासार्धमासवर्षाणि ऋतवस्सन्धयस्तथा
त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते
त्रिधा लोकास्त्रिधा देवास् त्रिधा विद्यास्त्रिधा गतिः
भूतं भव्यं भविष्यं च धर्मोऽर्थः काम इत्यपि
प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः
यत् किञ्चिदिह वै लोके सर्वमेष्वेव तु त्रिषु
त्रयो गुणाः प्रवर्तन्ते ह्यव्यक्ता नित्यमेव तु
सत्वं रजस्तमश्चैव गुणसर्गस्सनातनः
तदव्यक्तं शिवं नित्यम् अजं योनिं सनातनम्
प्रकृतिर्विकारः प्रलयं प्रधानं प्रभवाप्ययम्
अनुद्रिक्तमनूनं च व्यक्तमप्यचलं ध्रुवम्
सदसच्चैव तत् सर्वम् अव्यक्तं त्रिगुणं स्मृतम्
ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः
अव्यक्तनामानि गुणांश्च तत्त्वतो यो वेद सर्वाणि गतीश्च केवलाः
विमुक्तदेहः प्रविभागतत्त्ववित् स मुच्यते सर्वगुणैर्निरामयः