ब्रह्मा-
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम्
सर्वभूतहितं लोके सतां धर्ममनिन्दितम्
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च
अकार्पण्यमसंरम्भस् सन्तोषश्श्रद्दधानता
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः
मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः
एवं यो युक्तधर्मस्स्यात् सोऽमुत्रानन्त्यमश्नुते
निर्ममो निरहङ्कारो निराशीस्सर्वतस्समः
अकामहत इत्येव सतां धर्मस्सनातनः
विश्रम्भो ह्रीस्तितिक्षा च त्यागश्शौचमतन्द्रिता
आनृशंस्यमसम्मोहो दया भूतेष्वपैशुनम्
हर्षस्तुष्टिर्विस्मयश्च विनयस्साधुवृत्तिता
शान्तिः कर्मविशुद्धिश्च शभा बुद्धिर्विमोचनम्
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः
निर्ममत्वमनाशीष्ट्वम् अपरिक्षतधर्मता
मुधा दानं मुधा यज्ञो मुधाऽधीतं मुधा व्रतम्
मुधा प्रतिग्रहश्चैव मुधा धर्मो मुधा तपः
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन् सत्वसंश्रयाः
ब्राह्मणा ब्रह्मयोनिस्थास् ते धीरास्साधुदर्शिनः
जित्वा सर्वाणि पापानि निश्शोका ह्यजरामराः
दिव्यं प्राप्य तु ते धीराः कुर्वते वै ततस्तनूः
ईशित्वं च वशित्वं च लघुत्वं चाणुता तथा
विकुर्वन्तो महात्मानो देवास्त्रिदिवगा इव
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकास्स्मृताः
विकुर्वन्तः प्रकृत्या वै दिवं प्राप्तास्ततस्ततः
यद्यदिच्छन्ति तत् सर्वं भजन्ते विभजन्ति च
इत्येतत् सात्विकं वृत्तं कथितं वो द्विजर्षभाः
एतद्विज्ञाय विधिवल् लभते यद्यदिच्छति
प्रकीर्तितास्सत्त्वगुणा विशेषतो यथावदुक्तं गुणवृत्तमेव च
नरस्तु यो वेद गुणानिमान् सदा गुणान् स भुङ्क्ते न गुणैस्तु भुज्यते