ब्रह्मा-
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः
निबोधत महाभागा गुणवृत्तं च सर्वशः
सङ्कल्पो रूपमायासस् सुखदुःखे हिमातपौ
ऐश्वर्यं निग्रहस्सिद्धिर् हेतुवादोऽरतिः क्षमा
बलं शौर्यं मदो रोषो व्यायामकलहावपि
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम्
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च
निकृन्त च्छिन्धि भिन्धीति परवर्मावकर्तनम्
उग्रं दारुणमाक्रोशः परवित्तानुरागिता
लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम्
वृथाशास्त्रं मृषावादो विकल्पपरिभाषणम्
निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम्
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः
व्यूहो नयः प्रमादश्च परिवादः परिग्रहः
संस्कारा ये च लोकेऽस्मिन् प्रवर्तन्ते वृथा पृथक्
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च
सन्तापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये
प्रमदा शीलयुक्ता च सततं मे भवत्विति
स्वधाकारो नमस्कारस् स्वहाकारो वषट्क्रिया
याजनाध्यापने चोभे तथैवाहुः प्रतिग्रहम्
इदं मे स्यादिदं मे स्यात् स्नेहो गुणसमुद्भवः
अभिद्रोहस्तथा माया निकृतिर्मान एव च
स्तेयं हि सम्परीवादः परितापः प्रजागरः
दम्भो दर्पोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम्
द्यूतं च जनवादश्च सम्बन्धास्स्त्रीकृताश्च ये
नृत्तवादित्रगीतानि प्रसङ्गा ये च केचन
सर्व एते गुणा विप्रा राजसास्सम्प्रकीर्तिताः
भूतभव्यभविष्याणां भावानां भुवि भावनाः
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः
अर्वाक्स्रोतस इत्येते ते जना रजसास्स्मृताः
अस्मिँलोके प्रमोदन्ते जायमानाः पुनःपनः
प्रेत्यभाविकमिच्छन्ति ऐहलौकिकमेव च
दानानि प्रतिगृह्णन्ति तप्यन्त्यथ च जुह्वति
रजोगुणा वो बहुधाऽनुकीर्तिता यथावदुक्तं गुणवृत्तमेव च
नरो हि यो वेद गुणानिमान् सदा स राजसैस्सर्वगुणैर्विमुच्यते