ब्रह्मा-
तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम्
नवद्वारं पुरं विद्यात् त्रिगुणं पञ्चधातुकम्
एकादशपरिक्षेपं मनोव्याकरणात्मकम्
बुद्धिस्वामिकमित्येतत् परमेकादशाद् भवेत्
त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनःपुनः
प्रनाड्यस्तिस्र एतेषां प्रवर्तन्ते गुणात्मिकाः
तमो रजस्तथा सत्वं गुणानेतान् प्रचक्षते
अन्योन्यमिथुनास्सर्वे तथाऽन्योन्यानुजीविनः
अन्योन्यापाश्रयिणश्चैव तथाऽन्योन्यानुवर्तिनः
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्चधातवः
तमसो मिथुनं सत्वं सत्वस्य मिथुनं रजः
रजसश्चापि सत्वं स्यात् सत्वस्य मिथुनं तमः
नियम्यते तमो यत्र रजस्तत्र प्रवर्तते
नियम्यते रजो यत्र सत्वं तत्र प्रवर्तते
नैशात्मकं तमो विद्यात् त्रिगुणं मोहसञ्ज्ञितम्
अधर्मलक्षणं चैव नियतं पापकर्मसु
प्रकृत्यात्मकमेवाभूद् रजः पर्यायकारणम्
प्रवृत्तं सर्वभूतेषु पश्यत्युत्पत्तिलक्षणम्
एतेषां गुणतत्त्वं हि वक्ष्यते प्राप्तहेतुभिः
समासव्यासयुक्तानि तत्त्वतस्तानि वित्त मे
सम्मोहो मनसस्त्यागः कर्मणामविनिर्णयः
स्वप्नस्स्तम्भो भयं लोभश् शोकस्सुकृतदूषणम्
विस्मृतिश्चाविवेकश्च नास्तिक्यं भिन्नवृत्तिता
निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता
अकृते कृतमानित्वम् अज्ञाने ज्ञानमानिता
अमैत्री विकृतो भावो ह्यश्रद्धा गूढभावना
अनार्जवमसञ्ज्ञत्वं कर्म पापमचेतना
गुरुत्वं सन्नभावत्वम् अशीतत्वमवाग्गतिः
सर्व एते गुणाश्चैव तामसाः परिकीर्तिताः
ये चान्ये नियता भावा लोकेऽस्मिन् मूढसञ्ज्ञिताः
तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः
परिवादकथा नित्यं देवब्राह्मणवैरिता
अत्यागश्चातिमानश्च मोहो मन्युस्तथाऽक्षमा
मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते
वृथाऽऽरम्भा हि ये केचिद् वृथा दानानि यानि च
वृथा भक्षणमित्येतत् तामसं वृत्तमिष्यते
अतिवादोऽतितिक्षा च मात्सर्यमतिमानिता
अश्रद्दधानता चैव तामसं वृत्तमिष्यते
एवंविधास्तु ये केचिल्लोकेऽस्मिन् पापकर्मिणः
मनुष्या भिन्नमर्यादास् ते सर्वे तामसा जनाः
तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मिणाम्
अवाङ्निरयभागा वै तिर्यङ्निरयगामिनः
स्थावराणि च भूतानि पशवो वाहनानि च
क्रव्यादा दन्दशूकाश्च कृमिकीटविहङ्गमाः
अपरे जन्तवो ये च सर्वे चापि चतुष्पदाः
उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः
मग्नास्तमसि दुर्वृत्तास् स्वकर्मकृतलक्षणाः
अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः
तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम्
यथा ते सुकृतां लोकाँल्लभन्ते पुण्यकर्मिणाम्
अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु
स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम्
संस्कारेणोर्ध्वमायान्ति यतमानास्सलोकताम्
स्वर्गं गच्छन्ति देवानाम् इत्येषा वैदिकी श्रुतिः
अन्यथा प्रतिपन्नास्तु विबुद्धास्स्वेषु कर्मसु
पुनरावृत्तिधर्माणस् ते भवन्तीह मानुषाः
पापयोनिं समापन्नाश् चण्डाला वृकचूचुकाः
वर्णान् पर्यायतश्चैव प्राप्नुवन्त्युत्तरोत्तरम्
शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः
स्रोतोमध्ये समागम्य वर्तन्ते तामसा गुणाः
अभिष्वङ्गस्तु कामेषु महामोह इति स्मृतः
ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः
तमोमोहो महामोहस् तामिस्रो ह्यन्धसञ्ज्ञितः
मरणं त्वन्धतामिस्रस् तामिस्रः क्रोध उच्यते
भावतो गुणतश्चैव योनितश्चैव तत्त्वतः
सर्वमेतत् तमो विप्राः कीर्तितं वो यथाविधि
को न्वेतद्बुध्यते साधु को न्वेतत् साधु पश्यति
अतत्त्वे तत्त्वदर्शी यस् तमसस्तच्च लक्षणम्
तमोगुणा वो बहुवोऽनुकीर्तिता यथावदुक्तं च तमः परावरम्
नरो हि यो वेद गुणानिमान् सदा स तामसैस्सर्वगुणैर्विमुच्यते