अर्जुनः-
ब्रह्म यत् परमं वेद्यं तन्मे व्याख्यातुमर्हसि
भवतो हि प्रसादेन सुसूक्ष्मे मे रमते मतिः
श्रीभगवान्-
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह
कश्चिद् ब्राह्मणमासीनम् आचार्यं संशितव्रतम्
शिष्यः पप्रच्छ मेधावी किंस्विच्छ्रेयः परन्तप
भगवन्तं प्रपन्नोऽहं निश्श्रेयसपरायणः
श्रीभगवान्-
याचे त्वां शिरसा विप्र यद् ब्रूयां तद्विचक्ष्व मे
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह
गुरुः-
कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज
श्रीभगवान्-
इत्युक्तस्स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः
प्राञ्जलिः परिपप्रच्छ यत् तच्छृणु महामते
शिष्यः-
कुतश्चाहं कुतश्च त्वं तत् सर्वं ब्रूहि यत् परम्
कुतो जातानि भूतानि चराणि स्थावराणि च
केन जीवन्ति जातानि तेषामायुः किमात्मकम्
किं सत्यं किं तपो विप्र के गुणास्सद्भिरीरिताः
के पन्थानश्शिवास्सन्ति सुकृतं किं च दुष्कृतम्
एतान् मे भगवन् प्रश्नान् याथातथ्येन सत्तम
वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः
श्रीभगवान्-
तस्मै सम्प्रतिपन्नाय यथावत् परिपृच्छते
शिष्याय गुणयुक्ताय शान्ताय प्रियवर्तिने
छायाभूताय दान्ताय यतते ब्रह्माचारिणे
तान् प्रश्नानब्रवीत् पार्थ मेधावी सदृढव्रतः
गुरुः कुरुकुलश्रेष्ठ सम्यक् सर्वानशेषतः
गुरुः-
ब्रह्मणोक्तमिदं धर्मम् ऋषिप्रवरसेवितम्
वेदविद्यासमावाप्तं तत्त्वभूतार्थभावनम्
भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम्
सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम्
प्रवक्ष्यामि महाप्राज्ञ पदमुत्तममद्य ते
बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम्
भृहस्पतिर्भरद्वाजो गौतमो भार्गवस्तथा
वसिष्ठः कश्यपश्चैव विश्वामित्रोऽत्रिरेव च
मार्गान् सर्वान् परिक्रम्य परिश्रान्तास्स्वकर्मभिः
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः
ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम्
तं प्रणम्य महात्मानं सुखासीनं महर्षयः
पप्रच्छुर्विनयोपेता नैश्श्रेयसमिदं परम्
ऋषयः-
कथं कर्म कृतं साधु कथं मुच्येत किल्बिषात्
के नो मार्गाश्शिवाश्च स्युः किं सत्यं किं च दुष्कृतम्
कौ वेमौ कर्मपन्थानौ महत्त्वं केन विन्दति
निरयं चापवर्गं च भूतानां प्रभवाप्ययौ
गुरुः-
इत्युक्तस्स मुनिश्रेष्ठैर् यदाह प्रपितामहः
तत् तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथातथम्
ब्रह्मा-
सत्याद्भूतानि जातानि चराणि स्थावराणि च
तपसा तानि जीवन्ति जीवितं तद्धि सुव्रतम्
स्वां योनिं पुनरागम्य वर्तन्ते येन कर्मणा
सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम्
ब्रह्म सत्यं तपस्सत्यं सत्यं चैव प्रजापतिः
सत्याद्भूतानि जातानि भूतं सत्यमयं महत्
तस्मात् सत्याश्रया विप्रा नित्यं योगपरायणाः
अतीतक्रोधसन्तापा नियता धर्मसेतवः
अन्योन्यनियतान् वैद्यान् धर्मसेतुप्रवर्तकान्
तानहं सम्प्रवक्ष्यामि शाश्वताल्ँलोकभावनान्
चातुर्वैद्यांस्तथा वर्णान् आश्रमांश्च पृथक् पृथक्
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः
नित्यं ब्रह्मविदामिष्टं गतं पूर्वमहर्षिभिः
गदतस्तु ममाद्येह पन्थानं दुर्विदं परम्
निबोधत महाभागा निखिलेन परं पदम्
ब्रह्मचारिकमेवाहुर् आश्रमं प्रथमं पदम्
द्वितीयं गार्हपत्यं तु वानप्रस्थमतः परम्
ततः परं तु विज्ञेयम् अध्यात्मं परमं पदम्
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः
नोपैति यावदध्यात्मं तावदेतान् न पश्यति
तस्य रूपं प्रवक्ष्यामि पुरस्तात् तं निबोधत
फलमूलाशनवतां मुनीनां वसतां वने
वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते
सर्वेषामेव वर्णानां गृहस्थोऽयं विशिष्यते
श्रद्धालक्षणमित्येकं धर्मं धीराः प्रचक्षते
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना
विषयस्थानि सर्वाणि वर्तमानानि भागशः
महानात्मा तथाऽव्यक्तम् अहङ्कारस्तथैव च
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च
विशेषाः पञ्चभूतानाम् इत्येषा वैदिकी श्रुतिः
चतुर्विंशतिरेषा वै तेत्त्वानां सम्प्रकीर्तिता
तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ
स धीरस्सर्वभूतेषु न मोहमधिगच्छति
तत्त्वानि यो वेदयते यथातथं गुणांश्च सर्वानखिलां च देवताम्
विधूतपाप्मा हि विमुच्य बन्धनं स सर्वलोकानमलस्समश्नुते