ब्राह्मणी-
नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना
बहु चाल्पं च सङ्क्षिप्तं विस्मितं च मनो मम
उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः
तन्मन्ये कारणतमं यत एषा प्रवर्तते
ब्राह्मणः-
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः
तपश्श्रुतेऽथ मथिते ज्ञानाग्निर्जायते ततः
ब्राह्मणी-
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञ इति सञ्ज्ञितम्
ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तद्वद
ब्राह्मणः-
अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्महे
उपायं तु प्रवक्ष्यामि येन गृध्येत मानवः
सम्यगप्युपदिष्टस्य अमृतस्येव तृप्यसे
कर्मभुग्बुद्धिपूर्वस्स्याज् ज्ञानलिङ्गैरधिष्ठितः
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते
पश्यतश्शृण्वतो बुद्धिर् आत्मनैवोपजायते
यावन्त इह शक्येरंस् तावतोंशान् प्रकल्पयेत्
व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः
सर्वानुमानयुक्तांश्च सर्वान् प्रत्यक्षहेतुकान्
यतः परं न विद्येत तर्ह्याकाशं भविष्यति
श्रीभगवान्-
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंशये
क्षेत्रज्ञानेन परतः क्षेत्रज्ञोऽन्यः प्रवर्तते
अर्जुनः-
क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत
श्रीभगवान्
मनो मे ब्राह्मणं विद्धि बुद्धिं मे ब्राह्मणीमथ
क्षेत्रज्ञ इति यश्चोक्तस् सोऽहमेव धनञ्जय