ब्राह्मणः-
नाहं तथा भीरु चरामि लोके यथा त्वं मां तर्कयसे स्वबुद्ध्या
विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि गृहस्थधर्मा ब्रह्मचारी तथाऽस्मि
नाहमस्मि यथा मां त्वम् ईक्षसे चक्षुषा शुभे
मया व्याप्तमिदं सर्वं यत् किञ्चिज्जगतीगतम्
ये केचिदिह वै लोके जङ्गमास्स्थावराश्च ह
तेषाम्मन्तर्गतं विद्धि दारूणामिव पावकम्
राज्यं पृथिव्यां सर्वस्याम् अथवा यत् त्रिविष्टपे
तन्मे बुद्धिरियं वेत्ति बुद्धिरेव धनं मम
एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः
गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु
लिङ्गैर्बहुभिरव्यग्रैर् एका बुद्धिरुपास्यते
नानालिङ्गाश्रमस्थानां येषां बुद्धिश्शमात्मिका
ते भावमेकमायान्ति सरितस्सागरं यथा
बुद्ध्याऽयं गम्यते मार्गश् शरीरेण न गम्यते
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम्
तस्मान्मे सुभगे नास्ति परलोककृतं भयम्
मद्भावभावनिरता ममैवात्मानमेष्यसि