ब्राह्मणः-
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
ब्राह्मणस्य च संवादं जनकस्य च भामिनि
ब्राह्मणं जनको राजा क्लान्तं कस्मिंश्चिदागसि
विषये मे न वस्तव्यम् इति शिक्षार्थमब्रवीत्
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्
ब्राह्मणः-
आचक्ष्व विषयान् राजन् यांस्तव वशे स्थितान्
सोऽन्यस्य विषये राज्ञो वक्तुमिच्छाम्यहं विभो
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते
ब्राह्मणः-
इत्युक्तस्तु तदा राजा ब्राह्मणेन यशस्विना
मुहुरुष्णं च निश्श्वस्य न स तं प्रत्यभाषत
तमासीनं ध्यायमानं राजानममितौजसम्
कश्मलं सहसाऽगच्छद् भानुमन्तमिव ग्रहः
तमाश्वास्य ततो राजा व्यपेते कश्मले तदा
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत्
जनकः-
पितृपैतामहे राज्ये वश्ये जनपदे सति
विषयं नाधिगच्छामि विचिन्वन् पृथिवीमिमाम्
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया
नाध्यगच्छं यदा तस्यां स्वाः प्रजा मार्गिता मया
नाध्यगच्छं यथा तासु ततो मे कश्मलोऽभवत्
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता
यया न विषयं मन्ये सर्वो वा विषयो मम
आत्माऽपि चायं न मम सर्वा वा पृथिवी मम
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते
ब्राह्मणः-
पितृपैतामहे राज्ये वश्ये जनपदे सति
ब्रूहि कां मतिमास्थाय ममत्वं वर्जितं त्वया
कां वै बुद्धिं विनिश्रित्य सर्वो वै विषयस्तव
नावैषि विषयं येन सर्वो वा विषयस्तव
जनकः-
अन्तवन्त इहारम्भा विदितास्सर्वकर्मसु
नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत्
कस्येदमिति कश्चायम् इति वेदवचस्तथा
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत्
एतां बुद्धिं समाश्रित्य ममत्वं वर्जितं मया
शृणु बुद्धिं तु यां श्रुत्वा सर्वस्तु विषयो मम
नाहमात्मार्थमिच्छामि गन्धान् घ्राणगतानपि
तस्मान्मे निर्जिता भूमिर् वशे तिष्ठति नित्यशः
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः
आपो मे निर्जितास्तस्माद् वशे तिष्ठन्ति नित्यशः
नाहमात्मार्थमिच्छामि रूपं ज्योतिस्तु चक्षुषि
तस्मान्मे निर्जितं ज्योतिर् वशे तिष्ठति नित्यशः
नाहमात्मार्थमिच्छामि शब्दाञ् श्रोत्रगतानपि
आकाशं मे जितं तस्माद् वशे तिष्ठति नित्यशः
नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे
मनो मे निर्जितं तस्माद् वशे तिष्ठति नित्यशः
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिस्सह
भुक्तयर्थं सर्व एवेमे समारम्भा भवन्ति वै
ब्राह्मणः-
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम्
त्वमस्य ब्रह्मनाभस्य बुद्धावप्यनिवर्ततः
सत्वनेमिनिरुढस्य चक्रस्यैकः प्रवर्तकः