पितरः-
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
श्रुत्वा च तत् तथा कार्यं भवता द्विजसत्तम
अलर्को नाम राजर्षिर् अभवत् सुमहातपाः
धर्मज्ञस्सत्यसन्धश्च महात्मा सुमहाव्रतः
स सागरान्तां धनुषा विनिर्जित्य महीमिमाम्
कृत्वा सुदुष्करं कर्म मनस्सूक्ष्मे समादधे
स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह
उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते
अलर्कः-
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः
अन्यत्र बाणान् दास्यामि शत्रुभिः परिवारितः
यदिदं चापलात् कर्म सर्वामेताद्विकर्षति
मनः प्रति सुतीक्ष्णाग्रान् अहं मोक्ष्यामि सायकान्
मनः-
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि
अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यसि
पितरः-
तत्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्
अलर्कः-
आघ्राय सुबहून् गन्धांस् तानेव प्रति गृध्यति
तस्माद् ध्राणं प्रति शरान् प्रतिमोक्षाम्यहं शितान्
घ्राणः-
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि
अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यसि
अलर्कः-
इयं स्वादून् रसान् भुक्त्वा तानेव प्रति गृध्यति
तस्माज्जिह्वां प्रति शरान् प्रतिमोक्ष्याम्यहं शितान्
जिह्वा-
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम्
अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यसि
अलर्कः-
स्पृष्ट्वा त्वग् विविधान् स्पर्शांस् तानेव प्रति गृध्यति
तस्मात् तान् सूदयिष्येऽहं विविधैः कङ्कपत्रिभिः
त्वक्-
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम्
अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यसि
अलर्कः-
श्रुत्वा वै विविधाञ् शब्दांस् तानेव प्रति गृध्यति
तस्माच्छ्रोत्रं प्रति शरान् मोक्षयिष्याम्यहं शितान्
श्रोत्रम्-
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम्
अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यसि
अलर्कः-
दृष्ट्वैव विवधान् भावांस् तानेव प्रति गृध्यति
तस्माच्चक्षुः प्रति शरान् मोक्षयिष्याम्यहं शितान्
चक्षुः-
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि
अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यति
अलर्कः-
इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति
तस्माद्बुद्धिं प्रति शरान् प्रतिमोक्ष्याम्यहं शितान्
बुद्धिः-
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि
अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यसि
पितरः-
ततोऽलर्कस्तपो घोरं तत्रैवाऽऽस्थाय दुष्करम्
नाभ्यगच्छत् परं शक्त्या बाणमेतेषु सप्तसु
सुसमाहितचेतास्तु सततं चिन्तयत् प्रभुः
स विचिन्त्य चिरं कालम् अलर्को द्विजसत्तम
नाध्यगच्छत् परं श्रेयो योगान्मतिमतां वरः
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान्
योगेनात्मानमाविश्य स सिद्धिं परमां ययौ
विस्मितश्चापि राजर्षिर् इमां गाथां जगाद ह
अलर्कः-
अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम्
अतः पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम्
पितरः-
इति त्वमपि जानीहि राम मा क्षत्रियान् वधीः
तपो घोरमुपातिष्ठ ततश्श्रेयोऽभिपत्स्यसे
ब्राह्मणः-
इत्युक्तः पितृभिस्सोऽथ तपो घोरं समास्थितः
जामदग्न्यो महाभागे सिद्धिं च परमां गतः