ब्राह्मणः-
गन्धान् न जिघ्रामि रासान् न वेद्मि रूपं न पश्यामि न च स्पृशामि
न चापि शब्दान् विविधान् शृणोमि न चापि सङ्कल्पमुपैमि कञ्चित्
अर्थानिष्टान् कामयते स्वभावस् सर्वान् द्वेष्यान् द्वोष्टि चैव स्वभावः
कामद्वेषानुद्भवतस्स्वभावात् प्राणापानौ जन्तुदेहादिवैत्य
तेभ्यश्चान्यांस्तेष्वनन्यांश्च भावान् भूतात्मानं लक्षयेऽहं शरीरे
तस्मिंस्तिष्ठन् नास्मि सक्तः कथञ्चित् कामक्रोधाभ्यां जरया मृत्युना च
अकामयानस्य च सर्वकामान् अविद्विषाणस्य च सर्वदोषान्
न मे स्वभावेषु भवन्ति लेपास् तोयस्य बिन्दोरिव पुष्करेषु
नित्यस्य चैतस्य भवन्त्यनित्या निरीक्षमाणस्य बहून् स्वभावान्
न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम्
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
अध्वर्युयतिसंवादं तं निबोध यशस्विनि
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत्
यतिरध्वर्युमासीनो हिंसोयमिति कुत्सयन्
तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति
श्रेयसा योक्ष्यते जन्तुर् यज्ञास्तुतिरियं तथा
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति
यदस्य वारिजं किञ्चिद् अपस्तत् प्रतिपद्यते
सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च
आगमे वर्तमानस्य न मे दोषोऽस्ति कश्चन
यतिः-
प्राणैर्वियोगे च्छागस्य यदि श्रेयः प्रपश्यसि
छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम्
अनु त्वां मन्यते माता पिता भूत्वा सखाऽपि च
मन्त्रमस्यैमुन्नीय परिवर्ते विशेषतः
य एवमनुमन्येरंस् तान् भवान् प्रष्टुमर्हति
तेषामनुमतिं श्रुत्वा शक्या कर्तुं विचारणा
अध्वर्युः-
प्राणा अप्यस्य च्छागस्य प्रापितास्ते स्वयोनिषु
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः
यतिः-
इन्धनस्य तु तुल्येन शरीरेणि विचेतसा
हिंसा निर्वेष्टुकामानाम् इन्धनः पशुसञ्ज्ञितम्
अध्वर्युः-
अहिंसा सर्वभूतानाम् इति वृद्धानुशासनम्
यदहिंस्रं भवेत् कर्म तत् कार्यमिति विद्महे
अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम्
शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम्
अहिंसा सर्वभूतानां असभ्यं रोचते सदा
प्रत्यक्षतस्साधयामो न परोक्षमुपास्महे
अध्वर्युः-
भूमेर्गन्धगुणान् भुङ्क्षे पिबस्यापोमयान् रसान्
ज्योतिषामीक्षसे रूपं स्पृशस्यनिलजान् गुणान्
शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम्
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे
प्राणेऽपाने च नित्यं हि हिंसायां वर्तते भवान्
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज
यतिः-
अक्षरं च क्षरं चैव द्वैधीभावो यतात्मनाम्
अक्षरं तत्र सद्भावस् स्वभावः क्षर उच्यते
प्राणो जिह्वा मनस्सत्त्वं स्वभावो रजसो गुणः
भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः
समन्तात् परिमुक्तस्य न भयं विद्यते क्वचित्
अध्वर्युः-
सद्भिरेवेह संवादः कार्यो मतिमतां वर
भवतो कथितं श्रुत्वा प्रतिभाति मतिर्मम
भगवन् भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम्
मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज
ब्राह्मणः-
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम्
अध्वर्युरपि निर्मोहः प्रचचार महामखे
एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनार्थदर्शिना