ब्राह्मणः-
सङ्कल्पदंशमशकं शोकहर्षहिमातपम्
मोहान्धकारतिमिरं लोभव्यालसरीसृपम्
विषयैकात्यमध्वानं कामक्रोधनिरोधकम्
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम्
ब्राह्मणी-
क्व तद्वनं महाप्राज्ञ के वृक्षास्सरितश्च काः
कियन्तः पर्वताश्चैव कियत्यध्यनि तद्वनम्
ब्राह्मणः-
न मन्दस्य पृथग्भावः किञ्चिद्दूरतरं ततः
तस्माद्ध्रस्वतरं नास्ति न ततोऽन्यद् बृहत्तरम्
नास्ति तस्माद्दुःखतरं नास्त्यन्यत् तत्समं सुखम्
न तत् प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः
न च बिभ्यति केभ्यश्चिन्नैभ्यो बिभ्यति केचन
तस्मिन् वने सप्त महाद्रुमा हि फलानि सप्तातिथयश्च सप्त
सप्तर्षयस्सप्त समिद्धुतानि दीक्षाश्च सप्तैतदरण्यरूपम्
पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
सुरभीण्येकवर्णानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
एको ह्यग्निस्सुमना ब्राह्मणोऽत्र पञ्चेन्द्रियाणि समिधश्चात्र सन्ति
तेभ्यो वृक्षास्सप्त भवन्ति दीक्षा गुणाः फलान्यतिथयः फलाशाः
आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम्
प्रज्ञावृक्षं मोक्षफलं शान्तिच्छायासमन्वितम्
ज्ञानाश्रयं तृप्तितोयम् अन्तः क्षेत्रज्ञभास्करम्
येऽधिगच्छन्ति तत् सन्तस् तेषां नास्ति पुनर्भवः
ऊर्ध्वं चाधश्च तिर्यक् च तस्य नान्तोऽधिगम्यते
सप्त स्त्रियस्तत्र वसन्ति सत्यास् त्ववाङ्मुखा भानुमत्यो जनित्र्यः
ऊर्ध्वं रसानाददते प्रजाभ्यस् सर्वान् यथा सर्वमतीत्य ताश्च
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च
ते च सप्तर्षयस्सिद्धा वसिष्ठप्रमुखैस्त्विह
यशो वर्चो भगश्चौजो विजयस्सिद्धतेजसी
एतमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम्
ऋषयः पर्वताश्चैव सन्ति तत्र समासतः
नद्यश्च परितो वारि वहन्त्यो ब्रह्मसम्भवम्
नदीनां सङ्गमश्चैव वैतानेस्समुपह्वरे
स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम्
कृशाशाङ्गासुव्रताश्शान्तास् तपसा दग्धकिल्बिषाः
आत्मन्यात्मानमावेश्य ब्राह्मणास्तमुपासते
ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः
तदरण्यमभिप्रेत्य कथा कथमजायत
एतदेवेदृशं दिव्यम् अरण्यं ब्राह्मणा विदुः
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना