ब्राह्मणः-
एकश्शास्ता न द्वितीयोऽस्ति कश्चित् यो हृच्छयस्तमहमनुब्रवीमि
तेनैव युक्तः प्रवणादिवोदकं यथा नियुक्तोऽस्मि तथा वहामि
एको गुरुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि
तेनानुशिष्टा गुरुणा तथैव परभूता दानवास्सर्व एव
एको बन्धुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि
तेनानुशिष्टा बान्धवा बन्धुमन्तस् सप्तर्षयश्चैव दिवि प्रभान्ति
एकश्श्रोता नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि
तस्मिन् गुरौ गुरुवासं निरुष्य शक्रो गतस्सर्वलोकामरत्वम्
एको द्वेष्टा नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि
तेनानुशिष्टा गुरुणा सदैव लोके द्विष्टाः पन्नगास्सर्व एव
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
प्रजापतेः पन्नगानां देवर्षीणां च संविदम्
देवर्षयश्च नागाश्चाप्यसुराश्च प्रजापतिम्
पर्यपृच्छन्नुपासीनाश् श्रेयोः नः प्रोच्यतामिति
तेषां प्रोवाच भगवाञ् श्रेयस्समनुपृच्छताम्
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन् दिशः
तेषां प्रद्रवमाणानाम् उपदेशार्थमात्मनः
सर्पाणां दर्शने भावः प्रवृत्तः पूर्वमेव तु
असुराणां प्रवृत्तस्तु दर्पो भावस्स्वभावतः
दानं देवा व्यवसिता दममेव महर्षयः
एकं वक्तारमासाद्य शब्देनैकेन संस्कृताः
नाना व्यवसितास्सर्वे धर्मं देवर्षिदानवाः
शृणोम्येवं प्रोच्यमानं गृह्णाति च यथातथम्
पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते
तस्य चानुमते कर्म ततः पश्चात् प्रवर्तते
गुरुर्बन्धुश्च शास्ता च द्वेष्टा च हृदये स्थितः
पापेन विचरल्ँलोके पापचारी भवत्ययम्
शुभेन विचरल्ँलोके शुभचारी भवत्युत
कामचारी तु कामेन य इन्द्रियसुखे रतः
व्रतचारी सदैवैष य इन्द्रियजये रतः
अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः
ब्रह्मभूतश्चरल्ँलोके ब्रह्मचारी भवत्ययम्
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः
एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिना