ब्राह्मणः-
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
चातुर्होत्रविधानस्य विधानमिह यादृशम्
तस्य सर्वस्य विधिवद् विधानमुपदेक्ष्यते
शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम्
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि
चत्वार एते होतारो यैरिदं जगदावृतम्
होतॄणां साधनं चैव शृणु सर्वं समासतः
घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं च पञ्चमम्
मनो बुद्धिश्च सप्तैते ज्ञेयाः कारणहेतवः
गन्धो रसश्च रूपं च स्पर्शश्शब्दश्च पञ्चमः
मन्तव्यमवबोद्धव्यं सप्तैते कर्महेतवः
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः
स्वगुणान् भक्षयन्त्येते गुणवन्तश्शुभाशुभान्
अहं तु निर्गुणोऽत्रेते सप्तैते मोक्षहेतवः
विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि
गुणास्ते देवता भूत्वा सततं भुञ्जते हविः
अदन् हविद्वानन्नानि ममत्वेनोपहन्यते
आत्मार्थे पाचयन्नित्यं ममत्वेनोपहन्यते
अभक्ष्यभक्षणं चैव अन्नपानं च हन्ति तम्
स चान्नं हन्ति तचान्नं स बुध्वा हन्यते बुधः
अत्ता ह्यन्नमिदं विद्वान् पुनर्जनयतीश्वरः
न चान्नाज्जायते तस्मिन् सूक्ष्मो नाम व्यतिक्रमः
मनसा मन्यते यच्च यच्च बुद्ध्या निरुध्यते
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते
स्पर्शेन स्पृश्यते यच्च घ्राणेनाघ्रायते च यत्
मनष्षष्ठानि संयम्य हवींष्येतानि सर्वशः
गुणवत् पावक इव दीप्यते हव्यवाहनः।
योगयज्ञः प्रवृत्तो मे ज्ञानं ब्रह्म मनोभवः
प्राणस्तोत्रोऽपानशस्त्रस् सर्वत्यागश्च दक्षिणः
कर्ताऽनुमन्ता ब्रह्मात्मा कर्ताऽध्वर्युः कृतस्तुतिः
कृतः प्रशास्ता तच्छस्त्रम् अपवर्गोऽस्य दक्षिणा
ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः
नारायणाय देवाय यदबध्नात् पशून् पुनः
तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम्
देवं नारायणं भीरु सर्वात्मानं निबोध मे