ब्राह्मणः-
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
नारदस्य च संवादम् ऋषेर्देवतमस्य च
देवतमः-
जन्तोस्सञ्जायमानस्य किं नु पूर्वं प्रवर्तते
प्राणोऽपानस्समानो वा व्यानो वोदान एव च
नारदः-
येनायं सृज्यते जन्तुस् ततोऽन्यः पूर्वमेति तम्
प्राणद्वन्द्वं हि विज्ञेयं तिर्यगूर्ध्वं गतं च यत्
देवमतः-
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम्
प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात्
नारदः-
सङ्कल्पाज्जायते हर्षश् शब्दादपि च जायते
रसात् सञ्जायते चापि रूपादपि च जायते
स्पर्शात् सञ्जायते चापि गन्धादपि च जायते
एतद्रूपमुदानस्य हर्षो मिथुनमन्तरा
कामात् सञ्जायते शुक्लः कामात् सञ्जायते रजः
समानव्यानजनिते सामाने शुक्लशोणिते
शुक्लाच्छोणितसंसृष्टात् पूर्वं प्राणः प्रवर्तते
प्राणेन विकृते शुक्ले ततोऽपानः प्रवर्तते
शुक्लात् सञ्जायते चापि रसादपि च जायते
प्राणापानाविमौ द्वन्द्वम् अर्वाक् चोर्ध्वं च गच्छतः
व्यानस्समानश्चैवोभौ वह्निश्चैव प्रवर्तते
अग्निर्वै देवतास्सर्वा इति वेदानुशासनात्
सञ्जायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम्
सत्त्वं रूपं तमो रूपं रज एव सुरेजसः
सत्त्वं सञ्जायते तस्य यत्र प्रक्षिप्यते हविः
हविस्समानो व्यानश्च इति यज्ञविदो विदुः
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः
निर्द्वन्द्वमिति यत्त्वेतत् तन्मे निगदतश्शृणु
अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः
उभे चैवायने द्वन्द्वं तयोर्मध्ये हुताशनः
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः
उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः
उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः
सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः
पूर्वं समानो व्यानोऽथ व्यस्यते किं न कर्मकृत्
तृतीयं तु समानेन पुनरेव व्यवस्यते
शान्त्यर्थं वामदेव्यं च शास्ति ब्रह्म सनातनम्
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः