ब्राह्मणः-
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
सुभगे पञ्चहोतॄणां विधानमिह यादृशम्
प्राणापानावुदानश्च समानो व्यान एव च
पञ्चहोतॄनथैतान् वै परं भावं विदुर्बुधाः
ब्राह्मणी-
स्वभावात् सप्त होतार इति ते पूर्विका मतिः
यथा वै पञ्च होतारः परो भावस्तथोच्यताम्
ब्राह्मणः-
प्राणेन सम्भृतो वायुर् अपाने जाय ते ततः
अपाने सम्भृतो वायुस् ततो व्यानः प्रवर्तते
तेऽपृच्छन्त पुरो गत्वा पूर्वजातं प्रजापतिम्
यो नो ज्येष्ठस्तदाचक्ष्व स नश्श्रेष्ठो भविष्यति
प्रजापतिः-
यस्मिन् प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे
यस्मिन् प्रवृत्ते च पुनश्चरन्ति स वश्श्रेयान् गच्छत यत्र कामः
प्राणः-
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मा प्रलीनम्
ब्राह्मणः-
प्राणः प्रालीयत ततः पुनश्च प्रचचार ह
समानश्चाप्युदानश्च वचोऽब्रूतां पुनश्शुभे
समानोदानौ-
ब्राह्मणः-
न त्वं सर्वमिदं व्याप्य तिष्ठस्युत यथा वयम्
न त्वं श्रेष्ठो हि नः प्राण अपानो हि वशे तव
प्रचचार पुनः प्राणस् ततोऽपानोऽभ्यभाषत
अपानः-
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मा प्रलीनम्
ब्राह्मणः-
व्यानोदानौ-
व्यानश्च तमुदानश्च भाषमाणमथोचतुः
अपान न त्वं श्रेष्ठो नः प्राणो हि वशगस्तव
ब्राह्मणः-
व्यानः-
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत्
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मा प्रलीनम्
ब्राह्मणः-
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह
प्राणापानावुदानश्च समानश्च तमब्रुवन्
प्राणापानोदानसमानाः-
ब्राह्मणः-
न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव
प्रचचार तत् व्यानस् समानस्तमथाब्रवीत्
समानः-
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मा प्रलीनम्
ब्राह्मणः-
प्राणापानव्यानोदानाः-
ततस्समानः प्रालिल्ये पुनश्च प्रचचार ह
प्राणापानावुदानश्च व्यानश्चैव तमब्रुवन्
न त्वं समान श्रेष्ठोऽसि व्यान एव वशे तव
ब्राह्मणः-
उदानः-
समानः प्रचचाराथ उदानस्तमुवाच ह
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्
ब्राह्मणः-
ततः प्रालीयतोदानः पुनश्च प्रचचार ह
प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन्
प्राणापानव्यानसमानाः-
ब्राह्मणः-
उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव
ततस्तानब्रवीत् सर्वान् स्मयमानः प्रजापतिः
ब्रह्मा-
सर्वे श्रेष्ठा न च श्रेष्ठास् सर्वे चान्योन्यरक्षिणः
सर्वे स्वविषये श्रेष्ठास् सर्वे चान्योन्यचारिणः
ब्राह्मणः-
इति तानब्रवीत् सर्वान् समवेतान् प्रजापतिः
ब्रह्मा-
एकस्स्थिरश्चराश्चान्ये विशेषाः पञ्च वायवः
एक एव च सर्वात्मा बहुधाऽप्युपचीयते
परस्परस्य सुहृदो भावयन्तः परस्परम्
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम्