मनः-
नाघ्राति मदृते घ्राणो रसं जिह्वा न बुध्द्यते
रूपं चक्षुर्न गृह्णाति त्वक् स्पर्शं नावबुध्यते
न श्रोत्रं श्रुणुयाच्छब्दं मया हीनं कदाचन
प्रवरं सर्वभूतानाम् अहमस्मि सनातनम्
अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः
काष्ठानीवार्धशुष्काणि यतमानैरपीन्द्रियैः
गुणार्थान् नाधिगच्छन्ति मादृते सर्वजन्तवः
इन्द्रियाणि-
एवमेतद्भवेत् सत्यं यथैतन्मन्यते भवान्
ऋतेऽस्मानस्मदर्थांस्त्वं भोगान् भुञ्जीत चेद्भवान्
यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम्
भोगान् भुङ्क्ते रसान् वेत्ति यथैतन्मन्यते भवान्
अथवाऽप्यप्रलीनेषु तिष्ठत्सु विषयेषु च
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगांस्तथाऽर्थवत्
अथ चेन्मन्यसे बुद्धिम् अस्मदर्थेषु सर्वदा
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा
श्रोत्रेण गन्धानादत्स्व स्पर्शानादत्स्व जिह्वया
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च
बलवन्तो नियमाना नियमा दुर्बलीयसाम्
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि
यथा हि शिष्यश्शास्तारं श्रुत्यर्थमनुधावति
ततश्श्रुतमुपादाय श्रुतार्थमुपतिष्ठति
विषयानेवमस्माभिर्दर् दशितानभिमन्यसे
अनगतानतीतांश्च स्वप्ने जागरणे तथा
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम्
अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम्
बहूनपि हि सङ्कल्पान् कृत्वा स्वप्नानुपास्य च
बुभुक्षया भिद्यमानो विषयानेव धावति
अथागमं द्वारमिव प्रविश्य सङ्कल्पभोगे विषयानविन्दन्
प्राणक्षये शान्तिमुपैति नित्यं दारुक्षयेऽग्निर्ज्वलितो यथैव
कामं तु नष्टेषु गुणेषु सङ्गः कामं तु नान्योन्यगुणोपलब्धिः
ऋते त्वस्मान् नास्ति तपोपलब्धिस् तामप्यृतेऽस्मान् भजेते न हर्षः