ब्राह्मणः-
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
सुभगे सप्तहोतॄणां विधानमिह यादृशम्
घ्राणं चक्षुश्च जिह्वा च त्वक् श्रोत्रं चैव पञ्चमम्
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः
सूक्ष्मेऽवकाशे सन्तप्ते न पश्यन्तीतरेतरम्
एतद्वै सप्तहोतृत्वं स्वभावाद्विद्धि शोभने
ब्राह्मणी-
सूक्ष्मेऽवकाशे सन्तप्ते कथं नान्योन्यदर्शिनः
कथंस्वभावाद्भगवन्नेतदाचक्ष्व मे प्रभो
ब्राह्मणः-
गुणज्ञानमभिज्ञानं गुणज्ञानामभिज्ञता
परस्परगुणानेते न विजानन्ति कर्हिचित्
जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति
घ्राणं चक्षुश्च जिह्वा च श्रोत्रं बुद्धिर्मनस्तथा
न स्पर्शनधिगच्छन्ति त्वक् च तानधिगच्छति
घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च
न श्ब्दनधिगच्छन्ति श्रोत्रं तानाधिगच्छति
घ्राणं जिह्वा च चक्षुश्च श्रोत्रं त्वग् बुद्धिरेव च
संशयान् नाधिगच्छन्ति मनस्तानधिगच्छति
घ्राणं जिह्वा च चक्षुश्च श्रोत्रं त्वङ्मन एव च
न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति