ब्राह्मणः-
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
निबोध दशहोतॄणां विधानमिह यादृशम्
सर्वमेवात्र विज्ञाय चित्तज्ञानमवेक्षताम्
रेतश्शरीरभोत्का यो विज्ञाता तु शरीरभृत्
शरीरभृद्गार्हपत्यस् तस्मादग्निः प्रणीयते
ततश्चाहवनीयस्तु तस्मिन् संविक्षिप्यते हविः
ततो वाचस्पतिर्जज्ञे मनसा पर्यवेक्षते
रूपं भवति वै वक्त्रं तदनुद्रवते मनः
ब्राह्मणी-
कस्माद्वागभवत् पूर्वं कस्मात् पश्चान्मनोऽभवत्
मनसा चिन्तितं पूर्वं वाक्यं समभिपद्यते
केन विज्ञानयोगेन मतिश्चित्तं समाप्लुता
समुन्नीता नाधिगच्छेत् को वैनां प्रतिषेधति
ब्राह्मणः-
तन्मनस्थः पतिर्भूत्वा तस्मात् प्रेष्यं निबोधति
तां मतिं मनसः प्राहुर् मनस्तस्मादवेक्षते
प्रश्नं तु वाङ्मनसोर् यस्मात् त्वमनुपृच्छसि
तस्मात् ते वर्तयिष्यामि तयोरेव समाह्वयम्
उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम्
आवयोश्श्रेष्ठमाचक्ष्व च्छिन्धि नौ संशयं विभो
मन इत्येव भगवांस् तदा प्राह सरस्वतीम्
अहं वै कामधुक् तुभ्यम् इति तं प्राह वागथ
प्रजापतिः-
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम
स्थावरं मत्सकाशे वै जङ्गमं विषये तव
यत्तु ते विषयं गच्छन् मन्त्रो वर्णस्स्वरोऽपि वा
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी
तस्माद्भवितुमर्हामि स्वयमभ्येत्य शोभने
तस्मादुच्छ्वासमासाद्य प्रवक्ष्यामि सरस्वतीम्
प्राणापानान्तरे यस्माद् आवां नित्यं प्रतिष्ठताम्
प्रीयमाणां महाभागे विना प्राणमपानिति
प्रजापतिमुपाधावत् प्रसीद भगवन्निति
ततः प्राणः प्रादुरभूद् वाचमाप्याययन्नपि
तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित्
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते
तयोरपि च घोषिण्या निर्घोषैव गरीयसी
गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी
सततं स्यन्दिनी ह्येषा शाश्वता ब्रह्मवादिनी
दिव्या दिव्यप्रभावेण भारती गौश्शुचिस्मिता
एतयोरन्तरं पश्य सूक्ष्मयोस्सयन्दमानयोः
ब्राह्मणी-
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया
किं नु पूर्वं ततो देवी व्याजहार सरस्वती
ब्राह्मणः-
प्राणो न वा संश्रयते शरीरे प्राणादपानं प्रतिपद्यते तु
उदानभूता च विसृज्य देहं व्यानेन सर्वां दिवमावृणोति
ततस्समाने प्रतितिष्ठति स्वयं इत्येव पूर्वं प्रजजल्प वागपि
तस्मान्मनस्स्थावरत्वाद्विशिष्टं तथा देवी जङ्गमत्वाद्विशिष्टाः