श्रीभगवान्
इत्युक्त्वा स तदा पार्थ वाक्यं मां द्विजपुङ्गवः।
मोक्षधर्माश्रितं सम्यक् तत्रैवान्तरधीयत
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा
तदाऽपि हि रथस्थस्त्वं श्रुतवानेतदेव हि
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः
नरेणाकृतसङ्गेनाविदग्धेनाकृतात्मना।
सरहस्यमिदं प्रोक्तं देवानां भरतर्षभ
कच्चिन्नेदं श्रुतं पार्थ मन्ये नान्येन केनचित्
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वदृतेऽनघ
नैतदन्येन विज्ञेयं व्यामिश्रेणान्तरात्मना
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः
न चैतदिष्टं देवानां मर्त्यैरुपरि वर्तनम्
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम्
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी
एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने
सिद्धौ फलं च मोक्षश्च दुःखस्य च विनिर्णियः
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ
श्रुतवाञ्श्रद्दधानश्च पारगन्ता च पाण्डव
यः परित्यज्यते मर्त्यो लोकतन्त्रमसारवत्
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुते
एतावदेव वक्तव्यं न ते भूयोऽस्ति किञ्चन
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते