ब्राह्मणः
यस्मादेकान्तमासीनस्तूष्णीं किञ्चिदचिन्तयन्
पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत्
सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः
व्यपेतभयमन्युश्च कामहा मुच्यते नरः
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः
नित्यमेव यथान्यायं यश्चरेन्नियतेन्द्रियः
अमानी निरभीमानः सर्वतो मुक्त एव सः
जीवितं मरणं चोभे सुखदुःखे तथैव च
लाभालाभौ प्रियद्वेष्यौ यस्य साम्येन वर्तते
कञ्चिन्न तु स्पृहायेत नाभिजानाति किञ्चन
निर्द्वन्द्वो वीतरागात्मा सर्वथा मुक्त एव सः
अनमित्रो न बद्धश्चाप्यनपत्यश्च यः क्वचित्
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः
क्षीणधातुः प्रशान्तश्च निर्द्वन्द्वः स विमुच्यते
अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम्
अस्वस्थमवशं नित्यं जन्मसंसारमोहितम्
वैराग्यबुद्धिः सततं तावद्दोषव्यपेक्षकः
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव
अगन्धमरसस्पर्शमशब्दमपरिग्रहम्
अरूपमनभिज्ञेयं दृष्ट्वाऽऽत्मानं विमुच्यते
पञ्चभूतगुणैर्भग्नम् अमूर्तिमविलेपनम्
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते
विहाय सर्वसङ्कल्पान्बुद्ध्या शारीरमानसान्
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम्
परमाप्नोति वै शान्तो ह्यचलं दिव्यमक्षरम्
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः
तस्योपदेशं वक्ष्यामि यथावत्तन्निबोध मे
यैर्योगैर्भावयन्नित्यं पश्यत्यात्मानमात्मनि
इन्द्रियाण्युपसंहृत्य मन आत्मनि धारयेत्
तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत्
तपस्वी नित्यसङ्कल्पो दम्भाहङ्कारवर्जितः
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि
स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि
संयतः सततं युक्त आत्मवान्नियतेन्द्रियः
यथाऽयमात्मन्यात्मानं साधु युक्तः प्रपश्यति
यथा हि पुरुषं स्वप्ने दृष्ट्वा पश्यत्यसाविति
तथारूपमिवाऽऽत्मानं साधु युक्तः प्रपश्यति
इषीकां वा यथा मुञ्जात्कश्चिन्निष्कृष्य दर्शयेत्
योगी निविष्टमात्मानं तथा सम्पश्यते तनौ॥
मुञ्जं शरीरमित्याहुरिषीकामात्मनि श्रिताम्
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम्
यदा हि युक्तमात्मानं सम्यक् पश्यति देहभृत्
तदाऽस्य केशवे भक्तिस् त्रैलोक्यस्यापि यः प्रभुः
अन्यान्याश्च तनवो यथेष्टं प्रतिपद्यते
विनिर्भिद्य जरां मृत्युं न हृष्यति न शोचति
देवानामपि देवत्वं युक्तः कारयते वशी
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम्
विनश्यत्सु च लोकेषु न भयं तस्य जायते
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित्
दुःखशोकमलैर्घोरैः सङ्गस्नेहसमुद्भवैः
न विचाल्येत युक्तात्मा निस्पृहश्शान्तमानसः
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते
नातः सुखतरं किञ्चिल्लोके क्वचन दृश्यते
सम्यग्युक्तो यदाऽऽत्मानमात्मन्येव प्रपश्यति
तदैव न स्पृहयते साक्षादपि मरुत्पतेः॥
निर्वेदस्तु न कर्तव्यो युञ्जानेन कथञ्चन।
योगमेकान्तशीलस्तु यथा विन्दति तच्छृणु
दृष्टपूर्वां दिशं ध्यात्वा यस्मिन्सन्निवसेत्पुरे
पुरस्याभ्यन्तरे तस्य मनश्चार्यं न बाह्यतः॥
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत्
तस्मिन्नावसथे चार्यं न बाह्याभ्यन्तरे मनः
प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते।
तस्मिन्काये मनश्चार्यं न च कथञ्चन बाह्यतः
सन्नियम्येन्द्रियग्रामं निर्घोषे निर्जने शुभे।
कायमभ्यन्तरे कृत्स्नमेकाग्रः परिचिन्तयेत्
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम्
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम्
शिष्यः
भुक्तं भुक्त कथमिदं अन्नं कोष्ठे विपच्यते
कथं रसत्वं व्रजति शोणितं जायते कथम्॥
कथं मांसं च मेदश्च स्नाय्वस्थीनि च पोषयेत्
कथमेतानि सर्वाणि शरीराणि शरीरिणाम्
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम्
निरासनं निष्कसनं मलानां च पृथक् पृथक्
कुतो वाऽयुः प्रश्वसिति उच्छ्वसित्यपि वा पुनः
कथं देहमधिष्ठाय तिष्ठत्यात्माऽयमात्मनि
जीवः कायं वहति चेच् चेष्टमानः कलेवरम्
किंवर्णं कीदृशं चैव निवेशयति वै मनः
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ
ब्राह्मणः
इति सम्परिपृष्टोऽहं तेन विप्रेण माधव
प्रत्यब्रवं महाप्राज्ञ यथाश्रुतमरिन्दम
यथा श्वगोष्ठे प्रक्षिप्य नष्टे भाण्डमना भवेत्
तथा स्वकायं प्रक्षिप्य मनोद्वारैरनिश्चलैः
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत्
एवं सततमुद्युक्तः प्रीतात्मा नचिरात् स च
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित्
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः
मनसा तु प्रदीपेन महानात्मा प्रदृश्यते
सर्वतः पादपाणिं तं सर्वतोक्षिशिरोमुखम्।
जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति
स तमुत्सृज्य देहं तत् प्रध्यायद्ब्रह्म केवलम्।
आत्मानमालोकयति मनसा प्रहसन्निव
इदं सर्वं रहस्यं ते मयाोक्तं द्विजोत्तम
आपृच्छे साधयिष्यामि गच्छ विप्र यथासुखम्
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः
अगच्छद् वै यथाकामं ब्राह्मणश्छिन्नसंशयः