ब्राह्मणः-
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम्
प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा
यथा प्रसूयमानस्तु समादद्यात् फलं बहु
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम्
पापं चापि तथैव स्यात् पापेन मनसा कृतम्
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते
यथा कर्मसमाविष्टः काममन्युसमावृतः
नरो गर्भं प्रविशति तत्रापि शृणु चोत्तरम्
शुक्रं शोणितसंयुक्तं स्त्रिया गर्भाशयं गतम्
क्षेत्रधर्ममवाप्नोति शुभं वा यदि वाऽशुभम्
सौक्ष्म्यादव्यक्तभावाच्च न स क्वचन सज्जति
सम्प्राप्य ब्राह्मणः कायं तस्मात् तद्ब्रह्म शाश्वतम्
तद्बीजं सर्वजन्तूनां तेन जीवन्ति जन्तवः
स जीवस्सर्वजन्तूनां गर्भमाविश्य भागशः
स याति तेजसा सम्यक् प्राणस्थानेष्ववस्थितः
ततस्स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः
यथा लोहितविष्यन्दो निषिक्तो बिम्बविग्रहम्
उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम्
लोहपिण्डं यथा वह्निस् स प्रविश्यातितापयेत्
तथा त्वमपि जानीहि गर्भे जीवोपपादनम्
यथा च दीपश्शरणं दीप्यमानः प्रकाशयेत्
एवमेव शरीराणि प्रकाशयति चेतना
यद्यच्च कुरुते कर्म शुभं वा यदि वाऽशुभम्
पूर्वदेहकृतं सर्वम् अवश्यमुपभुज्यते
ततस्तु क्षीयते चैव पुनश्चान्यत् प्रचीयते
यावत् तु मोक्षयोगस्थं धर्मं नैवावबुध्यते
तत् ते धर्मं प्रवक्ष्यामि सुखी भवति येन वै
आवर्तमानो जातीषु यथाऽन्योन्यासु सत्तम
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम्
दमः प्रशान्तता चैव भूतानां चानुकम्पनम्
संयमश्चानृशंस्यं च परस्वादानवर्जनम्
व्यलीकानामकरणं भूतानामनुकम्पनम्
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम्
गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः
प्रवर्तनं शुभानां च तत् सतां व्रतमुच्यते
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतम्
सद्भिराचरितो धर्मस् सदाचारे प्रतिष्ठितः
उभयार्थो भवत्येव स्वर्गार्थो मोक्षतस्तथा
एवं सत्सु सदा पश्येत् तत्र ह्येषा ध्रुवा स्थितिः
आचारो धर्ममाचष्टे यस्मिन् सन्तो व्यवस्थिताः
तेषु तद्धर्मनिक्षिप्तो यस्स धर्मस्सनातनः
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात्
अतो नियम्यते लोकः प्रमुह्यन् धर्मवर्त्मसु
यस्तु योगी च मुक्तश्च स वै तेभ्यो विशिष्यते
वर्तमानस्य धर्मेण पुरुषस्य यथा तथा
संसारतारणं यस्य कालेन महता भवेत्
एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते
सर्वं तत् कारणं येन निकृतोऽयमिहागतः
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम्
इत्येवं संशये लोके तच्च वक्ष्याम्यतः परम्
शरीरमात्मनः कृत्वा सर्वलोकपितामहः
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम्
ततः प्रधानमसृजच् चेतनानां शरीरिणाम्
मया सर्वमिदं व्याप्तं यां लोके परमां विदुः
इदं तत् क्षरमित्युक्तं परं त्वमृतमक्षरम्
त्रयाणां मिथुनं सर्वम् एकैकस्य पृथक् पृथक्
असृजत् सर्वभूतानां पूर्वसृष्टिं प्रजापतिः
स्थावराणि च बीजानि इत्येषा पौर्विकी श्रुतिः
तस्य कालपरीणामम् अकरोत् स पितामहः
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च
यथाऽत्र कश्चिन्मेधावी दृष्ट्वा कर्म तु पूर्वकम्
यत् प्रवक्ष्यामि तत् सर्वं यथावदुपपद्यते
सुखं दुःखं यथा सम्यग् अनित्ये यः प्रपश्यति
कायं चामेध्यसङ्घातं विनाशं कर्मसंहितम्
यच्च किञ्चित् सुखं दृष्टं तच्च दुःखमिति स्मरन्
संसारसागरं घोरं तरिष्यति सुदुस्तरम्
जनीमरणरोगैश्च समाविष्टः प्रधानवित्
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति
निर्विद्यते स्वतः कश्चिन्मार्गमाणः परं पदम्
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम
शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम्
प्रोच्यमानं मया विप्र निबोधेदमशेषतः