जनमेजयः-
विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम
राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनञ्जयौ
वैशम्पायनः-
विजिते पाण्डवै राजन् प्रशान्ते च विशाम्पतौ
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनञ्जयौ
विजह्राते मुदा युक्तौ दिवि देवेश्वराविव
तौ वनेषु विचित्रेषु पर्वतानां च सानुषु
शैलेषु गह्वरारण्ये पल्वलेषु नदीषु च
चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने
इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ
प्रविश्य तां सभां रम्यां विजह्राते च भारत
तत्र युद्धकथाश्चित्राः परिक्लेशांश्च भारत
कथायोगे कथायोगे कथयामासतुस्सदा
ऋषीणां देवतानां च वंशान् व्याहरतां तदा
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ
मधुरास्तु कथाश्चित्राश् चित्रार्थपदनिश्चयाः
निश्चयज्ञस्स पार्थाय कथयामास केशवः
पुत्रशोकाभिसन्तप्तं ज्ञातीनां च सहस्रशः
कथाभिश्शमयामास पार्थं शौरिर्जनार्दनः
स तमाश्वास्य विधिवद् विधानज्ञो महातपाः
अपहृत्यात्मनो भारं विशश्राम ससात्वतः
ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह
सान्त्वयञ् श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः
श्रीभगवान्-
विजितेयं धरा कृत्स्ना सव्यसाचिन् परन्तप
त्वद्बाहुबलामाश्रित्य राज्ञा धर्मसुतेन ह
असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः
भीमसेनप्रतापेन यमयोश्च नरोत्तम
धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम्
धर्मेण निहतस्सङ्ख्ये स च राजा सुयोधनः
अधर्मरुचयो लुब्धास् सदा चाप्रियवादिनः
धार्तराष्ट्रा दुरात्मानस् सानुबन्धा निपातिताः
प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह
रमे चाहं त्वया सार्धम् अरण्येष्विह पाण्डव
किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन
यत्र धर्मसुतो राजा यत्र भीमो महाबलः
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम
तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत
रमणीयेषु पुण्येषु सहितस्य त्वयाऽनध
कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः
बलदेवं च कौरव्य तथाऽन्यान् वृष्णिपुङ्गवान्
सोऽहं गन्तुमभीप्सामि पुरीं द्वारावतीं प्रति
रोचतां गमनं तुभ्यं ममापि भरतर्षभ
उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः
सह भीष्मेण यद्युक्तम् अस्माभिश्शोककर्शितः
शिष्टो युधिष्टिरोऽस्माभिश् शास्ता सन्नपि पाण्डवः
तेन तच्च वचस्सम्यग् गृहीतं सुमहात्मना
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि
सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थितौ
तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम्
न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते
कुतो गन्तुं महाबाहो पुरीं द्वारावतीं प्रति
सर्वमेतदहं पार्थ त्वत्प्रीतिहितकाम्यया
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत् कथञ्चन
प्रयोजनं च निर्वृत्तम् इह वासेन मेऽर्जुन
धार्तराष्ट्रो हतो राजा सबलस्सपदानुगः
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः
स्थिता समुद्रवसना सशैलवनकानना
चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम्
उपास्यमानो मुनिभिस् सिद्धैश्चापि महात्मभिः
संस्तूयमानस्सततं वन्दिभिर्भरतर्षभ
त्वं मया सह गत्वाऽद्य राजानं कुरुवर्धनम्
आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति
इदं शरीरं वसु यच्च मे गृहे निवेदितं पार्थ सदा युधिष्ठिरे
प्रियश्च मान्यश्च हि मे युधिष्ठिरस् सदा कुरूणामधिपो महामतिः
प्रयोजनं चापि विवासकारणे न विद्यते मे त्वदृते महाभुजे
स्थिता हि पृथ्वी तव पार्थ शासने गुरोस्सुवृत्तस्य युधिष्ठिरस्य हि
इतीदमुक्तस्स तदा महात्मना जनार्दनेनामितविक्रमोऽर्जुनः
तथेति कृच्छ्रादिव वाचमीरयञ् जनार्दनं सम्प्रतिपूज्य पार्थिव