वैशम्पायनः-
एवं बहुविधैर्वाक्यैर् मुनिभिस्तैस्तपोधनैः
समाश्वस्तस्तु राजर्षिर् हितबन्धुर्युधिष्ठिरः
सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम्
द्वैपायनेन कृष्णेन देवस्थानेन चाचैव हि
नारदेनाथ भीमेन नकुलेन च पार्थिव
कृष्णया सहदेवेन विजयेन च धीमता
अन्यैश्च पुरुषव्याघ्रैर् ब्राह्मणैश्शास्त्रदृष्टिभिः
व्यजहाच्छोकजं दुःखं सन्तापं चैव मानसम्
अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः
कृत्वा च प्रेतकार्याणि सर्वेषां कुरुनन्दनः
अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम्
प्रशान्तचेताः कौरव्यस् स्वराज्यं प्राप्य केवलम्
व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः
युधिष्ठिरः-
आश्वासितोऽहं प्राग्वृद्धैर् भवद्भिर्मुनिपुङ्गवैः
न स्तोकमपि नः किञ्चिद् व्यलीकमिह विद्यते
अर्थश्च सुमहान् प्राप्तो येन यक्ष्यामि देवताः
पुरस्कृत्येह भवतस् समानेष्याम्यतो मखम्
हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह
बह्वाश्चर्यो हि देशस्स श्रूयते द्विजसत्तम
तथा भगवता चित्रं कल्याणं बहु भाषितम्
देवर्षिणा नारदेन देवस्थानेन चैव ह
नाभागधेयः पुरुषः कश्चिदेवंविधान् गुरून्
लभते व्यसनं प्राप्य सुहृदस्साधुसम्मतान्
वैशम्पायनः-
एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः
अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ
पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः
ततो धर्मसुतो राजा तत्रैवोपाविशत् प्रभुः
एवं नातिमहान् कालस् स तेषामत्यवर्तत
कुर्वतां शौचकार्याणि भीष्मस्य निधने तथा
महादानानि विप्रेभ्यो ददतामौर्ध्वदैहिकम्
भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन
सहितो धृतराष्ट्रेण स ददावौर्ध्वदैहिकम्
ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डुनन्दनः।
धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम्