श्रीभगवान्-
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृघ्यतः
यो धर्मो यत् सुखं चैव द्विषतामस्तु तत् तव
द्व्यक्षरस्तु भवेन्मृत्युस् त्र्यक्षरं ब्रह्म शाश्वतम्
ममेति द्व्यक्षरो मृत्युर् न ममेति च शाश्वतम्
जन्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ
अदृश्यमानौ भूतानि योधयेतामसंशयम्
अविनाशोऽस्य तत्त्वस्य नियतो यदि भारत
हत्वा शरीरं भूतानाम् अहिंसां प्रतिपद्यते
लब्ध्वाऽपि पृथिवीं सर्वां सहस्थावरजङ्गमाम्
ममत्वं यस्य नैव स्यात् किं तया स करिष्यति
अथवा वसतः पार्थ वने वन्येन जीवतः
ममता यस्य वित्तेषु मृत्योरास्ये स वर्तते
ब्राह्यान्तराणां शत्रूणां स्वभावं पश्य भारत
योऽनुपश्यति तद्भूतं मुच्यते स महाभयात्
कामात्मानं न प्रशंसन्ति सर्वे न चाकामात् काचिदस्ति प्रवृत्तिः
दानं हि वेदाध्ययनं तपश्च कामेन कर्माणि च वैदिकानि
व्रतं यज्ञान् नियमान् ध्यानयोगान् कामेन यो नारभते विदित्वा
यदव्ययं कामयते स धर्मो योऽयं धर्मो नियमस्तस्य मूलम्
कामः-
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः
शृणु सङ्कीर्त्यमानास्ता निखिलेन नराधिप
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित्
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम्
तस्य तस्मिन् प्रहरणे पुनः प्रादुर्भवाम्यहम्
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः
जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम्
यो मां प्रयतते हन्तुं वेदैर्वेदाङ्गसाधकैः
स्थावरेष्विव शान्तात्मा पुनः प्रादुर्भवाम्यहम्
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः
भावो भवामि तस्याहं स च मां नावबुध्यते
यो मां प्रयतते हन्तुं तपसा संशितव्रतः
ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम्
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च
अवध्यस्सर्वभूतानाम् अहमेकस्सनातनः
श्रीभगवान्-
तस्मात् त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः
धर्मे कुरु महाराज तत्र ते न भविष्यति
यजस्व वाजिमेधेन विधिवद्दक्षिणावता
अन्यैश्च विविधैर्यज्ञैस् समृद्धैराप्तदक्षिणैः
धर्मं कुरु महाराज तत्र ते न भविष्यति
मा ते व्यथा भून्निहतान् बन्धून् वीक्ष्य पुनःपुनः
न शक्यास्ते पुनर्द्रष्टुं हता येऽस्मिन् रणाजिरे
स त्वमिष्ट्वा महायज्ञैस् समृद्धैराप्तदक्षिणैः
लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि