श्रीभगवान्-
द्विविधो जायते व्याधिश् शारीरो मानसस्तथा
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपलभ्यते
शरीराज्जायते व्याधिश् शारीरो नात्र संशयः
मानसो जायते व्याधिः मनस्येवेति निश्चयः
शीतोष्णे चैव वायुश्च गुणा राजञ् शरीरजाः
तेषां गुणानां साम्यं चेत् तदाहुस्स्वस्थलक्षणम्
उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते
सत्वं रजस्तमश्चेति त्रयस्स्वात्मगुणास्स्मृताः
तेषां गुणानां साम्यं चेत् तदाहुस्स्वस्थलक्षणम्
तेषामन्यतमोत्सेके विधानमुपदिश्यते
हर्षेण बाध्यते शोको हर्षश्शोकेन बाध्यते
कश्चिद्दुःखे वर्तमानस् सुखस्य स्मर्तुमिर्हति
कश्चित् सुखे वर्तमानो दुःखस्य स्मर्तुमर्हति
स त्वं न दुःखी दुःखस्य न सुखी त्वं सुखस्य च
स्मर्तुमर्हसि कौन्तेय दैवं हि बलवत्तरम्
अथवा ते स्वभावोऽयं येन पार्थावकृष्यसे
दृष्ट्वा सभागतां कृष्णाम् एकवस्त्रां रजस्वलाम्
मिषतां पाण्डवेयानां न तत् संस्मर्तुमर्हसि
प्रव्राजनं च नगराद् अजिनैश्च विवासनम्
महारण्यनिवासं च न तस्य स्मर्तुमर्हसि
जटासुरात् परिक्लेशं चित्रसेनेन चाहवम्
सैन्धवाच्च परिक्लेशं न तस्य स्मर्तुमिच्छसि
पुनरज्ञातचर्यायां कीचकेन पदा वधम्
याज्ञसेन्यास्तथा पार्थ न तस्य स्मर्तुमिच्छसि
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिन्दम
मनसैकेन बोद्धव्यं तत् ते युद्धमुपस्थितम्
तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ
परमव्यक्तरूपस्य पारं युक्त्वा स्वकर्मभिः
यच्च ते वशगैः कार्यं न मित्रैर्न च सैनिकैः
आत्मनैकेन कर्तव्यं तत् ते युद्धमुपस्थितम्
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि
एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्