वैशम्पायनः-
इत्युक्ते नृपतौ तस्मिन् व्यासेनाद्भुतकर्मणा
वासुदेवो महातेजास् ततो वचनमाददे
तं नृपं दीनमनसं निहतज्ञातिबान्धवम्
उपप्लुतमिवादित्यं सधूममिव पावकम्
विषण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः
आश्वासयन् धर्मसुतं प्रवक्तुमुपचक्रमे
श्रीभगवान्-
सर्वं जिह्मं मृत्युपदम् अजिवं ब्रह्मणः पदम्
एतावान् ज्ञानविषयः किं प्रलापः करिष्यति
नैव तेऽनुष्ठितं कर्म नैव ते शत्रवो जिताः
कथं शत्रुं शरीरस्थम् आत्मनो नावबुध्यसे
अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम्
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत
वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप
दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते
धराहरणनिर्गन्धो विषयस्समपद्यत
शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते
वृत्रस्य यततः क्रुद्धो घोरं वज्रमवासृजत्
स वध्यमानो वज्रेण सुभृशं भूरितेजसा
विवेश सहसाऽभांसि जग्राह विषयं ततः
व्याप्ते चाम्भसि वृत्रेण रसस्य विषये हृते
शतक्रतुरभिक्रुद्धस् तत्र वज्रमवासृजत्
स वध्यमानो वज्रेण सलिले भूरितेजसा
विवेश सहसा ज्योतिर् जग्राह विषयं ततः
व्याप्ते ज्योतिषि वृत्रेण रूपस्य विषये हृते
शतक्रतुरभिक्रुद्धस् तत्र वज्रमवासृजत्
स वध्यमानो वज्रेण सभृशं भुरितेजसा
विवेश सहसा वायुं जग्राह विषयं ततः
व्याप्ते वायौ च वृत्रेण स्पर्शस्य विषये हृते
शतक्रतुरभिक्रुद्धस् तत्र वज्रमवासृजत्
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा
विवेश सहसाऽऽकाशं जग्राह विषयं ततः
आकाशे वृत्रभूतेऽथ शब्दस्य विषये हृते
शतक्रतुरभिक्रुद्धस् तत्र वज्रमवासृजत्
स वध्यमानो वज्रेण तस्मिदमिततेजसा
विवेश सहसा शक्रं जग्राह विषयं ततः
तस्य वृत्रगृहीतस्य मोहस्समभवन्महान्
रथन्तरेण तं साम्ना वसिष्ठः प्रत्यबोधयत्
ततो वृत्रं शरीरस्थं जग्राह भरतर्षभ
शतक्रतुरदृश्येन वज्रेणेतीह नश्श्रुतम्
इदं धर्मरहस्यं तु शक्रेणोक्तं महर्षिषु
ऋषिभिश्च मम प्रोक्तं तन्निबोध नराधिप