इन्द्रः-
कच्चित् सुखं स्वपिषि त्वं बृहस्पते कच्चिन्मनोज्ञाः परिचारकास्ते
कच्चिद्देवानां सुखकामोऽसि विप्र कच्चिद्देवानां सुभृशं पालयन्ति
बृहस्पतिः-
सुखं शयेऽहं शयने महेन्द्र तथा मनोज्ञाः परिचारका मे
तथा देवानां सुखकामोऽस्मि शक्र देवाश्च मां सुभृशं पालयन्ति
इन्द्रः-
कुतो दुःखं मानसं देहजं वा पाण्डुर्विवर्णश्च कुतस्त्वमद्य
आचक्ष्व मे तद् द्विजवर्य यावन्निहन्मि सर्वांस्तव दुःखकर्तॄन्
बृहस्पतिः-
मरुत्तमाहुर्मघवन् यक्ष्यमाणं महायज्ञेनोत्तमदक्षिणेन
तं संवर्तो याजयतीति मे श्रुतं तदिच्छामि नस्स न तं याजयेत
इन्द्रः-
सर्वान् कामाननुजानासि विप्र त्वं देवानां मन्त्रयसे पुरोधाः
उभौ च ते जरामृत्यू व्यतीतौ किं संवर्तस्तव कर्ताऽद्य विप्र
बृहस्पतिः-
देवैस्सह त्वमसुरान् सम्प्रणुद्य जिघांससे चाप्युत सानुबन्धान्
यं यं समृद्धं पश्यसि तत्र तत्र दुःखं सपत्नेषु समृद्धभावः
अतोऽस्मि देवेन्द्र विवर्णरूपस् सपत्नो मे वर्धते तन्निशम्य
सर्वोपायैर्मघवंस्त्वं नियच्छ संवर्तं वा पार्थिवं वा मरुत्तम्
इन्द्रः-
एहि गच्छ प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते
अयं वै त्वां याजयिता बृहस्पतिस् तथाऽमरं चैव करिष्यतीति
अग्निः-
अहं गच्छामि तव शक्राद्य दूतो बृहस्पतिं परिदातुं मरुत्ते
वाचं सत्यां पुरुहूत कर्तुं बृहस्पतेश्चापचितिं चिकीर्षन्
व्यासः-
ततः प्रायाद्धूमकेतुर्महात्मा वनस्पतीन् वीरुधश्चावमृद्नन्
कामाद्धिमान्ते परिवर्धमानः काष्ठामृतौ मातरिश्वेव मृद्नन्
मरुत्तः-
आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम्
आसनं सलिलं पाद्यं गां चोपानय वै मुने
अग्निः-
आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ
इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम्
मरुत्तः-
कच्चिच्छ्रीमान् देवराजस्सुखीनः कच्चिच्चास्माभिः प्रीयते धूमकेतो
कच्चिद्देवाश्चास्य वशे यथावत् तद्ब्रूहि त्वं मम कार्त्स्न्येन देव
अग्निः-
शक्रो भृशं स सुखी पार्थिवेन्द्र प्रीतिं चेच्छत्यजरां देवराजः
देवाश्च सर्वे वशगास्तस्य राजन् सन्देशं तु शृणु मे देवराज्ञः
यदर्थं वै प्राहिणोत् त्वत्सकाशं बृहस्पतिं परिदातुं मरुत्ते
अयं गुरुर्याजयतां नृप त्वां मर्त्यं सन्तममरं त्वां करोतु
मरुत्तः-
संवर्तो मे याजयिता द्विजोत्तमो बृहस्पतेरञ्जलिरेष तस्य
नासौ देवं याजयित्वा महेन्द्रं मर्त्यं सन्तं याजयन्नद्य शोभेत्
अग्निः-
ये ये लोका देवलोके महान्तस् सम्प्राप्स्यसे देवराजप्रसादात्
त्वां चेदसौ याजयेद्वै बृहस्पतिर् नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः
तथा लोका मानुषा ये च दिव्याः प्रजापतेश्चापि ये वै महान्तः
एते च ते देवराज्यं च कृत्स्नं बृहस्पतिश्चेद्याजयेत् त्वां नरेन्द्र
संवर्तः-
मा स्मैव त्वं पुनरागाः कथञ्चिद् बृहस्पतिं परिदातुं मरुत्ते
मा त्वा धक्ष्ये चक्षुषा दारुणेन सङ्क्रुद्धोऽहं पावक तन्निबोध
व्यासः-
ततो देवानगमद्धूमकेतुर् दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत्
तं वै दृष्ट्वा प्राह शक्रो महात्मा बृहस्पतेस्सन्निधौ हव्यवाहम्
इन्द्रः-
यत् त्वं गतः प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते
तत् किं प्राह स नृपो यक्ष्यमाणः कच्चिद्वचः प्रतिगृह्णाति तच्च
अग्निः-
न ते वाकयं रोचयते मरुत्तो बृहस्पतेरञ्जलिं प्राहिणोत् सः
संवर्तो मां याजयितेत्यभीक्षणम् पुनः पुनस्स मया प्रोच्यमानः
उवाचेदं मानुषा ये च दिव्या प्रजापतेर्ये च लोका महान्तः
तांश्चेल्लभेयं संविदं तेन कृत्वा तथाऽपि नेच्छेयमिति प्रतीतः
इन्द्रः
पुनर्भवान् पार्थिवं त्वं समेत्य वाक्यं मदीयं प्रापयस्वार्थयुक्तम्
पुनर्यदुक्तो न करिष्यते वचस् ततो वज्रं सम्प्रहर्तास्मि तस्मै
अग्निः-
गन्धर्वराड् यात्वयं तत्र दूतो बिभेम्यहं वासव तत्र गन्तुम्
संरब्धो मामुक्तवांस्तीक्ष्णरोषस् संवर्तो वाक्यं चरितब्रह्मचर्यः
यद्यागच्छेः पुनरेवं कथञ्चिद् बृहस्पतिं परिदातुं मरुत्ते
दहेयं त्वां चक्षुषा दारुणेन सङ्क्रुद्ध इत्येतदवेहि शक्र
इन्द्रः-
त्वमेवान्यान् दहसे जातवेदो न च त्वदन्यो विद्यते भस्मकर्ता
त्वत्संस्पर्शात् सर्वलोको बिभेति न श्रद्धेयं भाषसे हव्यवाह
अग्निः-
दिवं देवेन्द्र पृथिवीं च सर्वां संवेष्टयेस्त्वं स्वबलेनैव शक्र
एवंविधस्येह स यस्तवासौ कथं वृत्रस्त्रिदिवं प्राग्जहार
इन्द्रः-
न दण्डकान्न शाकान्नो कलिङ्गान्न कारूशात् सोमं प्रपिबामि वह्ने
न दुर्बमायावसृजामि वज्रं को मेऽसुखाय प्रहरेन्मनुष्यः
प्रव्राजयन् कालकेयान् पृथिव्याम् अपाकर्षन् दानवानन्तरिक्षात्
दिवः प्रभावादयमन्तमानयं को मेऽसुखाय प्रहरेताद्य मर्त्यः
अग्निः-
यत्र शर्यातिं च्यवनो याजयिष्यन् सहाश्विभ्यां सोममेकोऽप्यगृह्णात्
तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ताच् छर्यातियज्ञं स्मर तं महेन्द्र
वज्रं गृहीत्वा च पुरन्दर त्वं सम्प्राहार्षीश्च्यवनस्यातिघोरम्
स ते विप्रस्सह वज्रेण बाहुम् अपागृह्णात् तपसा जातमन्युः
ततो रोषात् सर्वतो घोररूपं सपत्नं ते जनयामास विप्रः
मधुनामानमसुरं विश्वरूपं यं त्वं दृष्ट्वा चक्षुषी सन्न्यमील्यः
हनुरेका जगतीस्था तथैका दिवं गता महतो दानवस्य
सहस्रं दन्तानां शतयोजनानां सुतीक्ष्णानां घोररूपं बभूव
वृत्तास्स्थूला रजतस्तम्भवर्णा दंष्ट्राश्चतस्रो द्वे शते योजनानाम्
स त्वां दन्तान् विदशन्नभ्यधावज् जिघांसया शूलमुद्यम्य घोरम्
तं नापश्यस्त्वं तदा घोररूपं सर्वे त्वदन्ये ददृशुर्दर्शनीयम्
यस्माद्भीतः प्राञ्जलिस्त्वं महर्षिं गच्छेश्शीघ्रं शरणं दानवघ्न
क्षात्रादेव ब्रह्मबलं गरीयो न ब्रह्मतः किञ्चिदन्यद्गरीयः
सोऽहं जानन् ब्रह्मतेजो यथावन्न संवर्तं गन्तुमिच्छामि शक्र