संवर्तः-
मेरौ हिमवतः पृष्ठे मुञ्जवान् नाम पर्वतः
तप्यते यत्र भगवांस् तपो नित्यमुमापतिः
वनस्पतीनां मूलेषु शृङ्गेषु शिखरेषु च
गुहासु शैलराजस्य यथाकामं यथासुखम्
उमासहायो भगवान् यत्र नित्यं महेश्वरः
आस्ते शूली महातेजा नानाभूतसमावृतः
तत्र रुद्राश्च साध्याश्च विश्वे च वसवस्तथा
यमश्च वरुणश्चैव कुबेरश्च सहानुगः
भूतानि च पिशाचाश्च नासत्यावपि चाश्विनौ
गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः
उपासन्ते महात्मानं बहुरूपमुमापतिम्
रमते भगवांस्तत्र कुबेरानुचरैस्सह
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते
श्रिया ज्वलन् दृश्यते वै बालादित्यसमद्युतिः
न रूपं शक्यते तस्य संस्थानं वा कथञ्चन
निर्देष्टुं प्राणिभिः कैश्चित् प्राकृतैर्मांसलोचनैः
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः
न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर
धातवो जातरूपस्य रश्मयस्सवितुर्यथा
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः
चिकीर्षद्भिः प्रियं राजन् कुबेरस्य महात्मनः
तत्र गत्वा त्वमन्वास्य महायोगेश्वरं शिवम्
कुरु प्रणामं राजर्षे भक्त्या परमया युतः
तस्मै भगवते कृत्वा नमश्शर्वाय वेधसे
एभिस्तं नामभिर्देवं सर्वविद्याधरं स्तुहि
रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे
कपर्दिने करालाय हर्यक्ष्णे वरदाय च
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च
याम्यायाव्यक्तकेशाय शर्वाणिशङ्कराय च
क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च
हरिकेशाय मुण्डाय क्रुद्धायोत्तरणाय च
भास्वराय सुतीर्थाय देवदेवाय रंहसे
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे
गिरिशाय प्राशान्ताय यतये चीरवाससे
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च
मृगव्याधाय महते धन्विने च भवाय च
वराय सौम्यवक्त्राय स्रुवहस्ताय वर्षिणे
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम्
पशूनां पतये चैव भूतानां पतये नमः
वृषाय मातृभक्ताय सेनान्यै मध्यमाय च
अभिवक्त्राय पतये सर्वदेवमयाय च
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च
महात्मनेरनङ्गाय सर्वकायप्रमाथिने
तथा रुद्राधिपतये पृथवे कृत्तिवाससे
कपालमालिने चैव सुवर्णमुकुटाय च
महादेवाय कृष्णाय त्र्यम्बकायानघाय च
क्रोधनायानृशंसाय मृत्यवे बाहुशालिने
दण्डिने दृप्ततपसे तथैवाक्रूरकर्मणे
सहस्रशिरसे चैव सहस्रचरणाय च
वुरूपाय सुरूपाय बहुरूपाय दंष्ट्रिणे
पिनाकिनं महादेवं महाभोगिनमव्ययम्
त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम्
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम्
प्रभवं सर्वभूतानां धातारं धरणीधरम्
ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम्
उमापतिं पशुपतिं विश्वरूपं महेश्वरम्
विरूपाक्षं दशभुजं विष्यन्दं गोवृषध्वजम्
उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम्
शितिकण्ठमजं शुभ्रं पृथुं पृथुहरं शिवम्
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्
प्रणम्य शिरसा देवम् अनङ्गाङ्गहरं हरम्
शरण्यं शरणं यामि महादेवं चतुर्मुखम्
विरोचमानं वपुषा दिव्याभरणभूषितम्
अनाद्यन्तमजं शम्भुं सर्वव्यापिनमीश्वरम्
निस्त्रैगुण्यं निरुद्वेगं निर्मलं निधिमोजसाम्
प्रणम्य प्राञ्जलिश्शर्वं प्रयामि शरणं हरम्
सम्मान्यं निश्चलं नित्यम् अकारणमलेपनम्
अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः
यस्य नित्यं विदुस्स्थानं मोक्षमध्यात्मचिन्तकाः
योगिनस्तत्वमार्गस्थाः कैवल्यं पदमक्षरम्
यं विदुस्सङ्गनिर्मुक्तास् सामान्यं समदर्शिनः
तं प्रपद्ये जगद्योनिम् अयोनिं निर्गुणात्मकम्
असृजद्यस्तु भूरादीन् सप्त लोकान् सनातनान्
स्थितस्सत्योपरि स्थाणुं तं प्रपद्ये सनातनम्
भक्तानां सुलभं तं हि दुर्लभं दूरपातिनाम्
अदूरस्थममुं देवं प्रकृतेः परतस्स्थितम्
नमामि सर्वलोकस्थं व्रजामि शरणं शिवम्
एवं कृत्वा नमस्तस्मै महादेवाय शम्भवे
महात्मने क्षितिपते तत् सुवर्णमवाप्स्यसि
लभन्ते गाणपत्यं च तदेकाग्रा हि मानवाः
किं पुनस्स्वर्णभाण्डानि तस्मात् त्वं गच्छ मा चिरम्
महत्तरं हि ते लाभं हस्त्यश्वोष्ट्रादिभिस्सह
सुवर्णमाहरिष्यन्तस् तत्र गच्छन्तु ते नराः
व्यासः-
इत्युक्तस्तु वचस्तस्य चक्रे कारन्धमात्मजः
गङ्गाधरं नमस्कृत्य लब्धवान् धनमुत्तमम्
कुबेर इव तत् प्राप्य महादेवप्रसादतः
ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम्
सौवर्णानि च भाण्डानि सञ्चक्रुस्तत्र शिल्पिनः
शालाश्च सर्वसम्भारास् ततस्संवर्तशासनात्
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः
समृद्धिमति देवेभ्यस् सन्तापमकरोद्भृशम्
सन्तप्यमानो वैवर्ण्यं कृशत्वं चागमत् परम्
भविष्यति हि मे शत्रुस् संवर्तो वसुमानिति
तं श्रुत्वा भृशसन्तप्तं देवराजो बृहस्पतिम्
अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा