संवर्तः-
कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते
एतदाचक्ष्व मे सत्यं जीवितं चेत् प्रियं तव
सत्यं ते ब्रुवतस्सर्वे सम्पत्स्यन्ते मनोरथाः
मिथ्या प्रब्रुवतो मूर्धा सप्तधा ते फलिष्यति
मरुत्तः-
नारदेन भवान् मह्यम् आख्यातो गच्छता पथि
गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा
संवर्तः-
सत्यमेतद्भवानाह स मां जानाति सत्तम।
कथयस्वैतदेवं मे क्व नु सम्प्रति नारदः
मरुतः-
भवन्तं कथयित्वा तु मम देवर्षिसत्तमः
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम्
याजनीयोऽहमधुना भवता मधुसत्तम
व्यासः-
श्रुत्वा तु पार्थिवस्यैतत् संवर्तः परया मुदा
एतावदहमप्येवं कुर्यामिति तमब्रवीत्
ततस्संवर्त उन्मत्तो वाचा निर्भर्त्सयन्निव
रूक्षया ब्राह्मणो राजन् पुनःपुनरथाब्रवीत्
संवर्तः-
मदप्रधानेन मया स्वचित्तवशवर्तिना
एवं विकृतरूपेण कथं याजितुमिच्छसि
भ्राता मम समर्थश्च वासवेन च सत्कृतः
वर्तते याजने चैव तेन कर्माणि कारय
गार्हस्थ्यं चैव याज्याश्च सर्वा गृह्याश्च देवताः
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम्
नाहं तेनाननुज्ञातस् त्वामाविक्षित कर्हिचित्
याजयेयं कथञ्चिद्वै स मे पूज्यतमो गुरुः
स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य मां व्रज
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि
मरुत्तः-
बृहस्पतिं गतः पूर्वम् अहं संवर्त तच्छृणु
न मां कामयते याज्यं मुनिर्वासववारितः
अमरं वासवं याज्यं महर्षे मा स्म मानुषम्
याजयेथा मरुत्तं त्वं मर्त्यधर्माणमित्युत
स्पर्धते हि मया विप्र सदा हि स हि वासवः
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलवृत्रहा
स मामधिगतं प्रेम्णा याज्यत्वे न बुभूषति
देवराजं समाश्रित्य तद्विद्धि मुनिपुङ्गव
सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम्
तं कामयेऽतिक्रमितुं वासवं त्वत्कृतैर्गुणैः
न हि मे वर्तते बुद्धिर् गन्तुं ब्रह्मन् बृहस्पतिम्
प्रत्याख्यातो हि तेनास्मि तथाऽनपकृते सति
संवर्तः-
चिकीर्षसि यथाकामं सर्वमेतत् त्वयि ध्रुवम्
यदि सर्वानभिप्रायान् कर्तासि मम पार्थिव
याज्यमानं मया हि त्वां बृहस्पतिपुरन्दरौ
द्विषेतां समभिक्रुद्धावेतदेकं समर्थयेः
स्थैर्यमत्र कथं मे स्यात् स त्वं निस्संशयं कुरु
कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम्
मरुत्तः-
यावत् तपेत् सहस्रांशुस् तिष्ठेरंश्चापि पर्वताः
तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि
मा वाऽपि शुभबुद्धित्वं लभेयमिह कर्हिचित्
भोगेषु सम्यग्भोगांश्च त्यजेयं सङ्गतं यदि
संवर्तः-
आविक्षित शुभा बुद्धिर् ध्रियतां सर्वकर्मसु
याजनं हि ममाप्येव वर्तते हृदि पार्थिव
संविधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम्
येन देवान् सगन्धर्वाञ् शक्रं चाभिभविष्यसि
न तु मे वर्तते बुद्धिर् धने नान्येषु वा पुनः
धर्मं चकीर्षे विप्रियं भ्रातुरिन्द्रस्य चोभयोः
गमयिष्यामि चेन्द्रेण समतामपि ते ध्रुवम्
प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते