व्यासः-
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
बृहस्पतेश्च संवादं मरुत्तस्य च धीमतः
देवराजस्य समयं कृतमाङ्गिरसेन ह
श्रुत्वा मरुत्तो नृपतिर् मन्युमाहारयत् तदा
सङ्कल्प्य मनसा यज्ञं करन्धमसुतात्मजः
बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत्
मरुत्तः-
भगवन् यन्मया पूर्वम् अभिगम्य तपोधन
कृतोभिसन्धिर्यज्ञस्य भवतो वचनाद्गुरो
तदहं यष्टुमिच्छामि सम्भारास्सम्भृताश्च मे
याज्योऽस्मि भवतस्साधो तं प्राप्नुहि विधत्स्व च
बृहस्पतिः-
न कामये याजयितुं त्वामहं पृथिवीपते
वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे
मरुत्तः-
पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम्
न चास्म्ययाज्यतां प्राप्तो भजमानं भजस्व माम्
बृहस्पतिः-
अमर्त्यं याजयित्वाऽहं याजयिष्ये न मानुषम्
मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात्
न त्वां याजयितास्म्यद्य वृणु चान्यं यमिच्छसि
उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति
व्यासः-
एवमुक्तस्तु नृपतिर् मरुत्तो व्रीडितोऽभवत्
प्रत्यागच्छत् सुसंविग्नो ददर्श पथि नारदम्
देवर्षिणा समागम्य नारदेन स पार्थिवः
विधिवत् प्राञ्जलिस्तस्थौ तथैनं नारदोऽब्रवीत्
नारदः-
राजर्षे नातिहृष्टोऽसि कच्चित् क्षेमं तवानघ
क्व गतोऽसि कुतो वेदम् अप्रीतिस्थानमागतम्
श्रोतव्यं चेन्मया राजन् ब्रूहि मे पार्थिवर्षभ
व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप
व्यासः-
एवमुक्तो मरुत्तस्तु नारदेन महर्षिणा
विप्रलम्भमुपाध्यायात् सर्वमेव न्यवेदयत्
मरुत्तः-
गतोऽस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम्
यज्ञार्थमृत्विजं प्रष्टुं स च मां नाभ्यनन्दत
प्रत्याख्यातश्च तेनाहं जीवितं नाद्य कामये
परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद
व्यासः-
एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह
आविक्षितं महाराज वाचा सञ्जीवयन्निव
नारदः-
राजन्नङ्गिरसः पुत्रस् संवर्तो नाम धार्मिकः
चङ्क्रमीति दिशस्सर्वा दिग्वासा मोहयन् प्रजाः
तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः
प्रसन्नस्त्वां महातेजास् संवर्तो याजयिष्यति
मरुत्तः-
सञ्जीवितोऽहं भवता वाक्येनानेन नारद
पश्येयं क्व नु संवर्तं शंस मे वदतां वर
कथं च तस्मै वर्तेयं कथं मां न परित्यजेत्
प्रत्याख्यातो हि तेनापि नाहं जीवितुमुत्सहे
नारदः-
उन्मत्तवेषं बिभ्रत् स चङ्क्रमीति यथासुखम्
वाराणसीं तु नगरीम् अभीक्ष्णमुपसेवते
तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित्
तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते
तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत् स वीर्यवान्
तमेकान्ते समासाद्य प्राञ्जलिश्शरणं व्रजेः
पृच्छेत् त्वां यदि केनाहं तवाख्यात इति स्म ह
ब्रूयास्त्वं नारदेनेति सञ्ज्ञप्त इति शत्रुहन्
स चेत् त्वामनुयुञ्जीत ममानुगमनेप्सया
शंसेथा वह्निमारूढं मामपि त्वमशङ्कया
व्यासः-
स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम्
अभ्यनुज्ञाय राजर्षिर् ययौ वाराणसीं पुरीम्
तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः
कुणपं स्थापयामास नारदस्य वचस्स्मरन्
यौगपद्येन विप्रस्स पुरीद्वारं समाविशत्
ततस्स कुणपं दृष्ट्वा सहसा सन्न्यवर्तत
स तं निवृत्तमालक्य प्राञ्जलिः पृष्ठतोऽन्वगात्
आविक्षितो महीपालस् संवर्तमुपविक्षितुम्
स चैनं विजने दृष्ट्वा पांसुभिः कर्दमेन च
श्लेष्मणा चैव राजानं ष्ठीवनैश्च समाकिरत्
स तथा पीड्यमानोऽपि संवर्तेन महीपतिः
अन्वगादेव तमृषिं प्राञ्जलिस्सम्प्रसादयन्
ततो निवर्त्य संवर्तः परिश्रान्त उपाविशत्
शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम्