युधिष्ठिरः-
कथंवीर्यस्समभवत् स राजा ददतां वरः
कथं च जातरूपेण समयुज्यत वै नृपः
क्व च तत् साम्प्रतं द्रव्यं भगवन्नवतिष्ठते
कथं च शक्यमस्माभिस् तदवाप्तुं तपोधन
व्यासः
असुराश्चैव देवाश्च दक्षस्यासन् प्रजापतेः
अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम्
तथैवाङ्गिरसः पुत्रौ पितृतुल्यौ बभूवतुः
बृहस्पतिर्बृहत्तेजास् संवर्तश्च तपोधनः
तावति स्पर्धिनौ राजन् पृथगास्तां परस्परम्
बृहस्पतिस्तु संवर्तं बाधते स्म पुनःपुनः
स बाध्यमानस्सततं भ्रात्रा ज्येष्ठेन भारत
अर्थानुत्सृज्य दिग्वासा वने वासमरोचयत्
वासवोऽप्यसुरान् सर्वान् विजित्य च निपात्य च
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम्
पुत्रमङ्गिरसो ज्येष्ठं विप्रज्येष्ठं बृहस्पतिम्
याज्यस्त्वङ्गिरसः पूर्वम् आसीद्राजा करन्धमः
वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च
शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः
वाहनं यस्य योधाश्च द्रव्याणि विविधानि च
शयनानि च मुख्यानि महार्हाणि च सर्वशः
ध्यानादेवाभवन् राजन् मुखवातेन सर्वशः
स गुणैः पार्थिवान् सर्वान् वशे चक्रे नराधिपः
सञ्जीव्य कालमिष्टं च सशरीरो दिवं गतः
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित्
अविक्षिन्नाम शत्रुघ्नो यो वशे कृतवान् महीम्
विक्रमेण गुणैश्चैव पितेवासीत् स पार्थिवः
तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान्
पुत्रस्तमनुरक्ताऽभूत् पृथिवी सागराम्बरा
स्पर्धते सततं यस्माद् देवराजेन पार्थिवः
वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन
शुचिस्स गुणवानासीन्मरुत्तः पृथिवीपतिः
यजमानोऽपि यं शक्रो निर्विशेषयति स्म ह
सोऽशक्नुवन् विशेषाय समाहूय बृहस्पतिम्
उवाचेदं वचो देवैस् सहितो हरिवाहनः
इन्द्रः-
बृहस्पते मरुत्तस्य मा स्म कार्षीः कदाचन
दैवं कर्माथ पित्र्यं वा कर्तासि मम चेत् प्रियम्
अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः
कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम्
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया
मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम्
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम्
व्यासः-
एवमुक्तस्स कौरव्य देवराज्ञा बृहस्पतिः
मुहूर्तमिव सञ्चिन्त्य देवराजानमब्रवीत्
त्वं भूतानामधिपतिस् त्वयि लोकास्समाहिताः
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च
त्वमाजहर्षिर्देवानाम् एकवीर्यरिश्रयं पराम्
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन
पौरोहित्यमहं कृत्वा तव देव सुरेश्वर
याजयेयं कथं मर्त्यं मरुत्तं पाकशासन
समाश्वसिहि देवेश नाहं मर्त्याय कर्हिचित्
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम
हिरण्यरेता नोष्णस्स्यात् परिवर्तेत मेदिनी
भासं च नो रविः कुर्यान्मत्सत्यं विचलेद्यदि
व्यासः-
बृहस्पतिवचश्श्रुत्वा शक्रो विगतमत्सरः
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा