वैशम्पायनः-
एवमुक्तस्तु राजाऽसौ धृतराष्ट्रेण धीमता
तूष्णी बभूव मेधावी तमुवाचाथ केशवः
श्रीभगवान्-
अतीव मनसा शोको ध्रियमाणो नराधिप
सन्तपयति चैतस्य पूर्वप्रेतान् पितामहान्
यजस्व विविधैर्यज्ञैर् बहुभिश्चप्तदक्षिणैः
देवांस्तर्पय सोमेन स्वधया च पितॄनपि
अतिथीनन्नपानेन कामैरन्यैरकिञ्चनान्
त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते
विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम्
श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात्
कृष्णद्वैपायनाच्चापि नारदाद्विदुरात् तथा
नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम्
पितृपैतामहं वृत्तम् आस्थाय धुरमुद्वह
युक्तं हि यशसा क्षात्रं स्वर्गं प्राप्तुमसंशयम्
न हि कश्चन शूराणां निहतोऽत्र पराङ्मुखः
त्यज शोकं महाराज भवितव्यं हि तत् तथा
न शक्यास्ते पुनर्द्रष्टुं त्वया येऽस्मिन् रणे हताः
वैशम्पायनः-
एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम्
विरराम महातेजास् तमुवाच युधिष्ठिरः
युधिष्ठिरः-
गोविन्द मयि या प्रीतिस् तव सा विदिता मम
सौहृदेन तथा प्रेम्णा सदा मामनुकम्पसे
प्रियं तु मे स्यात् सुमहत् कृतं चक्रगदाधर
श्रीमन् प्रीतेन मनसा सर्वयादवनन्दन
यदि मामनुजानीयाद् भवान् गन्तुं तपोवनम्
कृतकृत्यो भविष्यामि इति मे निश्चिता मतिः
न हि शान्तिं प्रपश्यामि घातयित्वा पितामहम्
नृशंसः पुरुषव्याघ्रं गुरुं वीर्यबलान्वितम्
कर्णं च पुरुषव्याघ्रं सङ्ग्रामेष्वपलायिनम्
कर्मणा येन मुच्येयं तस्मात् पापादरिन्दम
कर्म तत् त्वं विधत्स्वेह न हि शुध्यति मे मनः
वैशम्पायनः-
तमेवंवादिनं व्यासस् ततः प्रोवाच धर्मवित्
सान्त्वयन् सुमहातेजाः वेदवेदाङ्गतत्त्ववित्
व्यासः-
सुकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे
किमाकाशे वयं सर्वे प्रलपामो मुहुर्मुहुः
विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका
यथा च वै त्वं नृपते शोकबन्धाद्विमोक्ष्यसे
मोक्षधर्माश्च निखिला याथावत् संश्रुतास्त्वया
यथा वै कामजां मायां परित्युक्तं त्वमर्हसि
तथा तु कुर्वन् नृपतिर् नानुबन्धेन युज्यते
असकृच्चैव सन्देहाश् छिन्नास्ते कामजा मया
अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम्
मैवं भूस्त्वं न ते युक्तम् इदमज्ञानमीदृशम्
प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ
युद्धधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः
स कथं सर्वधर्मज्ञस् सर्वागमविशारदः
परिमुह्यसि भूयस्त्वम् अज्ञानादिव भारत