वैशम्पायनः-
कृतोदकस्तु राजानं धृतराष्ट्रं युधिष्ठिरः
पुरस्कृत्य महाबाहुर् उत्तताराकुलेन्द्रियः
उत्तीर्य तु महीपालो बाष्पव्याकुललोचनः
पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः
तं सीदमानं जग्राह भीमः कृष्णेन चोदितः
मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः
तमार्तं पतितं भूमौ श्वसन्तं च पुनः पुनः
ददृशुः पाण्डवा राजन् धर्मपुत्रं युधिष्ठिरम्
तं दृष्ट्वा दीनमनसं गतसत्वं जरेश्वरम्
भूयश्शोकसमाविष्टाः पाण्डवास्समुपाविशन्
राजा च धृतराष्ट्रस्तम् उपासीनं महाभुजम्
वाक्यमाह महाबुद्धिर् महाबुद्धिं जनेश्वरम्
धृतराष्ट्रः-
उत्तिष्ठ नरशार्दूल कुरु कार्यमनन्तरम्
क्षत्रधर्मेण कौरव्य जितेयमवनीस्त्वया
तां भुङ्क्ष्व भ्रातृभिस्सार्धं सुहृद्भिश्च जनेश्वर
न शोचितव्यं पश्यामि त्वया धर्मभृतां वर
शोचितव्यं मया चैव गान्धार्या च महामते
ययोः पुत्रशतं नष्टं स्वप्नलब्धं धनं यथा
अश्रुत्वा हितकामस्य विदुरस्य महात्मनः
वाक्यानि सुमहार्थानि परितप्तोऽस्मि दुर्मतिः
उक्तवानेष मां पूर्वं धर्मात्मा दिव्यदर्शनः
विदुरः-
दुर्योधनापराधेन कुलं ते विनशिष्यति
स्वस्ति चेदिच्छसे कामं कुलस्य कुरु मे वचः
वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः
कर्णश्च शकुनिश्चैव मैनं पश्यतु कर्हिचित्
दूतसम्पातमप्येषाम् अप्रमत्तो निवारय
अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम्
स पालयिष्यति वशी धर्मेण पृथिवीमिमाम्
अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम्
विनाशमुपयास्तन्ति तव पुत्रा न संशयः
मेढीभूतं स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव
समं सर्वेषु भूतेषु वर्तमानं नराधिप
अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन्न
धृतराष्ट्रः-
एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि
दुर्योधनमहं पापम् अनुवृत्तो वृथामतिः
अश्रुत्वैवास्य धीरस्य वाक्यानि मधुराणि च
फलं प्राप्य महद्दुःखं निमग्नश्शोकसागरे
वृद्धौ हि तेऽम्बापितरौ पश्यावां दुःखितौ नृप
न शोचितव्यं भवता पश्यामीह जनाधिप