वैशम्पायनः-
एवमुक्त्वा कुरून्सर्वान्भीष्मश्शान्तनवस्तदा
तूष्णीं बभूव कौरव्यस्स मुहूर्तं कुरूद्वह
समादधत्स्वमात्मानं धारणानुक्रमात्स्थितः
तस्योर्ध्वमगमन्प्राणास्सन्निरुद्धा महात्मनः
इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम्
यद्यन्मुञ्चति गात्राणां स शन्तनुसुतस्तदा
तत्तद्विशल्यमभवद्योगयुक्तस्य वै क्रमात्
क्षणेन प्रेक्षतां तेषां विशल्यस्सोऽभवत्तदा
तं द्दृष्ट्वा विस्मितास्सर्वे वासुदेवपुरोगमाः
सङ्गतैर्मुनिभिस्सर्वैस्तदा व्यासादिभिर्नृप
सन्निरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु वै
जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात ह
देवदुन्दुभिनादश्च पुष्पवर्षैर्महानभूत्
सिद्धा ब्रह्मर्षयश्चैव साधुसाध्विति हर्षिताः
महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप
निस्सृकत्याकाशमाविश्य क्षणेनान्तरधीयत
एवं स नृपशार्दूल श्रीमाञ्शान्तनवस्तदा
समयुज्यत लोकैस्स्वैर्भरतानां कुलोद्वहः
ततस्त्वादाय दारूणि चन्दनान्यगरूणि च
चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा
युयुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन्
युधिष्ठिरश्च गाङ्गेयं धृतराष्ट्रश्च दुःखितौ
छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम्
धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम्
चामरे व्यजने शुभ्रे भीमसेनार्जुनावुभौ
छत्रे च परिगृह्णीतां माद्रीपुत्रावुभौ तदा
युधिष्ठिरेण सहितो धृतराष्ट्रश्च पादतः
वृद्धास्स्त्रियः कौरवाणां भीष्मं कुरुकुलोद्वहम्
तालवृन्तान्युपादाय पर्यवीजन्त सर्वशः
ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः
याजका जुहुवुश्चाग्नौ जगुस्सामानि समागाः
ततश्चन्दनकाष्ठैश्च तथा कालेयकैरपि
कालागुरुप्रभृतिभिर्गन्धैश्चाज्यघटैरपि
समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम्
अपसव्यमकुर्वन्त धृतराष्ट्रमुखा नृप
प्रज्वाल्य तु नरश्रेष्ठं गाङ्गेयं कुरुसत्तमम्
जग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः
अनुगम्यमाना व्यासेन नारदेनासितेन च
कृष्णेन भरतस्त्रीभिर्ये च पौरास्समागताः
उदकं चक्रिरे सर्वे गाङ्गेयस्य महात्मनः
विधिवत्क्षत्रियश्रेष्ठास्स च पौरजनस्तदा
सा च भागीरथी देवी तनयस्योदके कृते
उत्थाय सलिलात्तस्माद्रुदती शोकलालसा
परिदेवयती तत्र कौरकवानभ्यभाषत
गङ्गा-
निबोधत यथावृत्तमुच्यमानं मया नृपाः
राजवृत्तेन सम्पन्नः प्रज्ञयाऽभिजनेन च
समर्थः कुरुवृद्धानां पितृभक्तो दृढव्रतः
जामदग्न्येन रामेण पुरा यो न पराजितः
दिव्यैरस्त्रैर्महावीर्यैस्स हतोऽद्य शिखण्डिना
अश्मसारमयं नूनं हृदयं मम पार्थिवाः
अपश्यन्त्याः प्रियं पुत्रं यन्न दीर्यति मेऽद्य वै
समेतं पार्थिवाः क्षत्रं काशिपुर्यां स्वयंवरे
विजित्यैकरथेनाजौ कन्याश्चैव जहार ह
यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन
हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना
योधयन्नापि निहतो निहतस्स शिखण्डिना
वैशम्पायनः-
एवं वाक्यं बहुविधं विलपन्तीं महानदीम्
आश्वासयामास तदा साम्ना दामोदरो विभुः
श्रीभगवान्-
समाश्वसिहि भद्रे त्वं मा शुचश्शुभदर्शने
गतः परमिकां सिद्धिं तव पुत्रो न संशयः
वसुरेष महातेजाश्शापदोषेण शोभने
मानुषत्वमनुप्राप्तो नैनं शोचितुमर्हसि
स एष क्षत्रधर्मेण युध्यमानो रणाजिरे
धनञ्जयेन निहतो नैव नुन्नश्शिखण्डिना
भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणे
न शक्तस्समरे हन्तुं साक्षादपि शतक्रतुः
स्वच्छन्देन सुतस्तुभ्यं गतस्स्वर्गं शुभानने
न शक्तास्तं निहन्तुं हि रणे तं सर्वदेवताः
तस्मान्मा त्वं सरिच्छ्रेष्ठे मा शुचः कुरुनन्दनम्
सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृप
वसूनेष गतो देवि पुत्रस्ते विज्वरा भव
अनुज्ञाप्य च ते सर्वे न्यवर्तन्त जनाधिपाः
वैशम्पायनः-
इत्युक्ता सा तु कृष्णेन व्यासेन सरितां वरा
त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह