भीष्मः-
कार्यन्ते सर्वथा न्यायात्सच्चासच्च कृतं तथा
तत्राश्वसेच्च सत्कृत्वा ह्यसत्कृत्वा न विश्वसेत्
काल एवान्तरा शक्तिर्निग्रहानुग्रहौ ददत्
बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते
यदा त्वस्य भवेद्बुद्धिर्धर्म्या चार्थप्रदर्शनी
तदाश्वसीत धर्मात्मा दृढबुद्धिर्न विश्वसेत्
एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम्
कालयुक्तो ह्युभयविच्छेषमर्थं समाचरेत्
यथा ह्युपस्थितैश्वर्यात्प्रजयन्ते नरा जनान्
एवमेवात्मनाऽऽत्मानं पूजयन्तीह धार्मिकाः
भावशुद्धिस्तु तपसा देवतानां च पूजया
सनातनेन शुद्ध्या च श्रुतदानजपैरपि
न ह्यशुद्धस्तु तां दद्याद्धर्मकाले कथञ्चन
तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम्
स्प्रष्टुमप्यसमर्थोऽपि ज्वलन्तमिव पावकम्
अधर्मसन्ततो धर्मं कुरुते परकारणात्
कार्युस्स्त्रियोऽपि धर्मोण धर्मो हि विजयावहः
त्रयाणामपि लोकानां त्रिलोककारणाद्भवेत्
तत्र कश्चिन्नयेत्प्राज्ञं गृहीत्वैव करे नरम्
ऊह्यमानस्तु धर्मेण प्राप्नुयात्परमच्युतम्
विश्वास एव कर्तव्यो धर्मे बहुफलेऽच्छले
पालयं त्वं प्रजास्सर्वाश्शान्तात्मा त्वनुशासितः
द्वैपायनस्स्वयं चक्षुः कृष्णास्ते तु परायणम्
वैशम्पायनः-
इत्युक्त्वोपासनार्थाय विरराम महामतिः
तूष्णीम्भूते ततो भीष्मे पटे चित्र इवार्षिते
मुहूर्तमिव तं ध्यात्वा व्यासस्सत्यवतीसुतः
नृपं शयानं गाङ्गेयमिदमाह वचस्त्वरन्
व्यासः-
राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः
सहितो भ्रातृभिस्सर्वैः पार्थिवैश्चानुयायिभिः
उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता
तमिमं पुनरागन्तुमनुज्ञातुं त्वमर्हसि
वैशम्पायनः-
एवमुक्तो भगवता व्यासेन पृथिवीपतिः
युधिष्ठिरं सहामात्म्यमनुजज्ञे नदीसुतः
भीष्मः-
उवाच चैनं मधुरं ततश्शान्तनवो नृपः
प्रविशस्व पुरं राजन्धर्मे ते ध्रियतां मनः
यजस्व विविधैर्यज्ञैः पावनैराप्तदक्षिणैः
ययातिरिव राजेन्द्र श्रद्धादमपुरस्सरः
क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पयन्
श्रेयसा योक्ष्यसे राजन्व्येतु ते मानसो ज्वरः
रञ्जयस्व प्रजास्सर्वाः प्रकृतीः परिसान्त्वय
सुहृदः फलसत्कारैरभ्यर्चय यथार्हतः
अनुः त्वामुपजीवन्तु मित्राणि सुहृदस्तथा
चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः
आगन्तव्यं च भवता साधयस्वेह पार्थिव
विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे
वैशम्पायनः-
तथेत्युक्त्वा च कौन्तेयस्सोऽभिवाद्य पितामहम्
प्रययौ सपरीवारो नगरं नागसाह्वयम्
धतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम्
सह तैर्ऋषिभिश्चैव भ्रातृभिश्च समन्वितः
पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिवः
प्रविवेश पुरुश्रेष्ठं तदा वारणसह्वयम्