युधिष्ठिरः-
नाभागधेयः प्राप्नोति धनं सुबलवानपि
भागधेयान्वितस्त्वर्थान्कृशो बालोऽपि विन्दति
नालाभकाले लभते प्रयत्नेऽपि कृते सति
लाभकालेऽप्रयत्नेन लभते विपुलं धनम्
कृतयत्ना नराश्चैव दृश्यन्ते शतशोऽधनाः
यदयत्नो भवेन्नित्यं सर्वं फलमाप्नुयात्
नावाप्यं नोपलभ्येत नृणां भरतसत्तम
सदा प्रयत्नं कृतवन्दृश्यन्ते ह्यफलो नरः
मार्गन्नयशतैरर्थानमार्गश्चापरस्सुखी
अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः
धनहीनास्तु धर्मस्था दृश्यन्ते चापरे जनाः
अधीत्य नीतिं कस्मात्तु नीतियुक्तो न दृश्यते
अनभिज्ञश्च साचिव्यं गमितः केन हेतुना
विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्मतिस्तथा
यदि विद्यामुपाश्रित्य नरस्सुखमवाप्नुयात्
न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत्
यथा पिपासां जयति पुरुषः प्राप्य वै जलम्
इष्टाऽर्थो विद्ययाऽप्येवमविद्यां प्रजहेन्नरः
नाप्राप्तकालो म्रियते विद्धश्शरशतैरपि
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति
भीष्मः-
ईहमानस्समारम्भान्यदि नासादयेद्धनम्
उग्रं तपस्समारोहेन्न ह्यनुप्तं प्ररोहति
दानेन भोगी भवति मेधावी वृद्धसेवया
अहिंसया च दीर्घायुरेवमाहुर्मनीषिणः
तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि
सजपः प्रियकृच्छुद्धस्ससत्वाविहिंसकः
यदा प्रमाणप्रभवस्स्वभावश्च सुखासुखे
मशकक्रिमिकीटानां स्थिरो भव युधिष्ठिर