वैशम्पायनः-
इत्युक्तवति तद्वाक्यं कृष्णे देवकिनन्दने
भीष्मं शान्तनवं भूयः पर्यपृच्छद्युधिष्ठिरः
युधिष्ठिरः-
निर्णये तु महाबुद्धे सर्वधर्मभृतां वर
प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत्
भीष्मः-
नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः
शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि
संशयस्सुमहान्राजन्निर्णयस्तत्र दुर्गमः
दृष्टं श्रुतमचिन्त्यं हि यत्र संशयदर्शनम्
प्रत्यक्षं कारणं दृष्टं हैतुकं प्राज्ञमानिनः
नास्तीत्येवं व्यवस्यन्ति सत्यमागममेव वा
तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः
अथ सञ्चिन्त्यमेवैकं कारणं किं भवेदिति
शक्यं दीर्घेण कालेन युक्तेनामन्त्रितेन च
प्राणयात्रामनेकां च कल्पयानेन भारत
तत्परेणैव नान्येन शक्यते तत्तु कारणम्
हेतूनाऽऽमन्त्रितेनापि धर्मशास्त्रेण चोत्तमम्
ज्योतिस्सर्वस्य लोकस्य प्रकाशं प्रतिपद्यते
न त्वेव गमने राजन्हेत्वन्तगमने तथा
अग्राह्यमनुबन्धं च वचस्सम्परिवर्जयेत्
युधिष्ठिरः-
प्रत्यक्षमथ धर्माश्च लोकश्चागमपूर्वकाः
शिष्टाचाराश्च विविधा ब्रूहि तन्मे पितामहः
भीष्मः-
धर्मस्य ध्रियमाणस्य बलवद्भिर्दुरात्मभिः
संस्था यत्नैरपि कृता काले विपरिभिद्यते
अधर्मो धर्मरूपेण तृणैः कूप इवावृतः
ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर
अवृत्त्या ये तु निन्दन्ति श्रुतत्यागपरायणाः
धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः
अतृप्यन्तस्तु साधूनां यावदागमबुद्धयः
परमित्येव सन्तुष्टास्तानुपास्स्व च पृच्छ च
कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ
धर्म इत्येव सम्बुध्वा तानुपास्स्व च पृच्छ च
येनैषां भिद्यते वृत्तं यज्ञास्स्वाध्यायकर्मभिः
मूलाचारस्तु साधूनां यज्ञस्वाध्यायवृत्ततः
आचारः कारणं चैव धर्मैस्यैतत्त्रयं विदुः
युधिष्ठिरः-
पुनरेव हि मे बुद्धिस्संशये परिमुह्यते
अपारे मज्जमानस्य परं तीरमपश्यतः
वेदः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि
पृथक्त्वं लभ्यते चैषां धर्मश्चैतत्त्रयं कथम्
भीष्मः-
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः
एवमेव विजानीहि त्रिधा त्वस्य प्रदर्शनम्
यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा
पृथक्त्वं चैव मे बुद्धिस्त्रयाणामपि वै तथा
ब्राह्मणेषु तु वृत्तिर्या पितृपैतामहोचिता
तामन्वेहि महाबाहो धर्मस्यैते हि देशिकाः
प्रमाणमप्रमाणं तु यः कुर्यादबुधो नरः
न स प्रमाणतामर्हो विषादजननो हि सः
ब्राह्मणानेव सेवस्व सत्कृत्य बहुमान्य च
एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तत्
युधिष्ठिरः-
ये धर्ममभ्यसूयन्ते ये धर्मं पर्युपासते
प्रब्रवीतु भवानेतत्क्व ते गच्छन्ति तादृशाः
भीष्मः-
रजसास्तामसाश्चैव समवस्थितचेतसः
नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः
ये तु धर्मं महाराज सततं पर्युपासते
धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत्
देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते
मनुष्या यदि वा देवाश्शरीरमुपताप्य वै
धर्मिणस्सुखमेधन्ते लोभद्वेषविवर्जिताः
प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः
धर्मिणः पर्युपासन्ते फलं पक्वमिवाशिनः
युधिष्ठिरः-
असाधोः कीदृशं शीलं साधोश्चैव तु कीदृशम्
ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः
भीष्मः-
दुराधाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः
साधवश्शीलसम्पन्नाश्शिष्टाचारस्य लक्षणम्
राजमार्गे गवां मध्ये वनमध्ये च धर्मिकाः
नोपसेचन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः
पञ्चानां यजनं कृत्वा शेषमश्नन्ति साधवः
न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः
चित्रभानुमपां देवं गोष्ठं चैव चतुष्पथम्
ब्राह्मणं धार्मिकं वृद्धं ये कुर्वन्ति प्रदक्षिणम्
वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च
ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ये
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च
सामान्यं भोजनं कुर्यात्स्वयं नाग्र्याशनं व्रजेत्
न सत्यार्जवधर्मस्य तुल्यमन्यच्च विद्यते
बहुला नाम गौस्तेन गतिमग्र्यां गता किल
मुनिशापाद्द्विजः कश्चिद्व्याघ्रतां समुपागतः
बहुलाभक्षणरुचिरास्वाद्य शपथेन तु
विमुच्य पीतवत्सां तां दृष्ट्वा स्मृत्वा पुरातनम्
जगाम लोकानमलान्सा स्वराष्ट्रं तथा पुनः
तस्मात्सत्यार्जवरतो राजन्राष्ट्रं समानवम्
तारयित्वा सुखं स्वर्गं गन्तासि भरतर्षभ
तथा शरणकामानां गोप्ता स्यात्स्वागतिप्रदः
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः
होमकाले यथा वह्निः काले होमं प्रतीक्षते
ऋतुकाले तथाऽऽधानं पितरश्च प्रतीक्षते
न चान्यां गच्छते यस्तु ब्रह्मचर्यं तु तस्य तत्
अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः
तस्माद्गोब्राह्मणान्नित्यमर्चयेत यथाविधि
यजुषां संस्कृतं मांसमुपभुञ्जन्न दुष्यति
पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम्
स्वदेशे परदेशे वाऽप्यतिथिं नोपवासयेत्
कर्म वै सफलं लब्ध्वा गुरुणां प्रतिवेदयेत्
गुरुणामासनं देयमभिवाद्याभिपूज्य च
गुरुमभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया
वृद्धान्नातिवेदज्जातु न च सम्प्रेषयेदिति
नासीनस्स्यात्स्थितेष्वेवमायुरस्य न रिष्यते
न नग्नामीक्षयेन्नारीं न नग्नान्पुरुषानपि
मैथुनं सततं गुप्तं तपश्चैव समाचरेत्
तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि
दर्शनानां परं ज्ञानं सन्तोषः परमं सुखम्
सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः
श्रुतमाप्नोति हि नरस्सततं वृद्धसेवया
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्
इच्छेच्चैव तपो नित्यमिन्द्रियाणामविभ्रमम्
संस्कृतं पायसं नित्यं यावसं कृसरं हविः
अष्टकाः पितृदैवत्या ग्रहाणामभिपूजनम्
न जातु त्वमिति ब्रूयादापरोक्षेऽपि मातरम्
श्मश्रुकर्मणि मङ्गल्यं क्षुते चाप्यभिनन्दनम्
त्वङ्कारो वा वधश्चेति विद्वत्सु न विशिष्यते
अवराणां समानानां शिष्याणां च समाचरेत्
पापमाचरते नित्यं हृदयं पापकर्मणाम्
ज्ञानपूर्वं कृतं कर्म गूहयन्ते ह्यसाधवः
न मां मनुष्याः पश्यन्ति न मां पश्यन्तीह देवताः
पापेनाभिगतं पापं पापमेवाभिपूरयेत्
यथा वार्धुषिको वृद्धिं प्रतिमासं प्रतीक्षते
धर्मेण विहितं धर्मं धर्ममेवाभिवर्धयेत्
यथा लवणमम्भोभिराप्लुतं प्रविलीयते
प्रायश्चित्तं कृतं पापं तथा सद्यः प्रणश्यति
तस्मात्पापं न गूहेत गूहमानं विवर्धते
कृत्वा तु साधुष्वाख्याय धर्मैः प्रशमयन्त्युत
आशया सञ्चितं द्रव्यं स्वकाले नोपभुज्यते
अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः
तद्धर्मसाधनं नित्यं सङ्कल्पाद्धनमार्जयेत्
मननं सर्वभूतानां धर्ममाहुर्मनीषिणः
तस्मात्सर्वाणि कार्याणि धर्मस्यैव समासतः
एक एव चरेद्धर्मं न धर्मध्वजिको भवेत्
धर्मस्य वणिजो ह्येते ये धर्ममुपभुञ्जते
अर्चेद्देवानदम्भेन सेवेताऽमायया गुरून्
धनं निदध्यात्पात्रेषु परत्रार्थं समावृतम्