श्रीभगवान्-
युधिष्ठिर महाबाहो महाभाग महामते
रुद्राय बहुरूपाय बहुनाम्ने निबोध मे
वदन्त्युग्रं महादेवं तथा देवं महेश्वरम्
एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः
घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः
परा घोरा तनुर्या सा अग्निविद्युत्समप्रभा
शिवा सौम्याऽथ हृद्याऽस्य धर्मस्त्वापोऽथ चन्द्रमाः
आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ
ब्रह्मचर्यं चरत्येका शिवा याऽस्य तनुस्तथा
याऽस्य घोरतमा मूर्तिर्जगत्संहरते तथा
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते
देवानां सुमहान्यच्च यच्चास्य विषयो महान्
यच्च विश्वं जगत्पाति महादेवस्ततस्स्मृतः
स मेधयति यन्नित्यं स सर्वान्सर्वकर्मभिः
शिवमिच्छन्मनुष्याणां तस्मादेष शिवस्स्मृतः
दहत्यूध्वं स्थितो यच्च प्राणान्प्रेरयते च यत्
स्थिरलिङ्गं च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः
यदस्य बहुधा रूपं भूतभव्यभवत्करम्
स्थावरं जङ्गमं चैव बहुरूपस्ततस्स्मृतः
धूम्ररूपा जटा यस्माद्धूर्जटिः पुनरुच्यते
विश्वे देवाश्च यद्रूपं विश्वरूपस्ततस्स्मृतः
सहस्राक्षोऽयुताक्षश्च सर्वतोक्षिमयोऽपि च
चक्षुषः प्रभवं तेजस्सर्वतश्चक्षुरेव तत्
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः
तेषामधिपतिर्यच्च तस्मात्पशुपतिस्स्मृतः
नित्येन ब्रह्मचर्येण लिङ्गमस्य सदा स्थितम्
भक्तानुग्रहणार्थाय गूढलिङ्गस्ततस्स्मृतः
विग्रहं पूजयेद्यो वै लिङ्गं वाऽपि महात्मनः
पूज्यमाने सदा तस्मिन्मोदते स महेश्वरः
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः
एष एव श्मशानेषु देवो वसति निर्दहन्
रमन्ते तं जनास्तत्र वीरस्थाननिषेविणम्
विषमस्थश्शरीरेषु स मृत्युः प्राणिनामिह
स च वायुश्शरीरेषु प्राणपालश्शरीरिणाम्
तस्य घोराणि रूपाणि दीप्तानि च शुभानि च
लोके यानि स्म पूज्यन्ते विप्रास्तानि विदुर्बुधाः
नामधेयानि देवेषु बहून्यस्य यथार्थतः
निरुच्यन्ते बहुत्त्वाच्च विभुत्वात्कर्मभिस्तथा
वेदे चास्य विदुर्विप्राश्शतरुद्रीयमुत्तमम्
व्यासेनोक्तं च यच्चास्य उपस्थानं महात्मनः
प्रदाता सर्वलोकानां विश्वसाक्षी निरामयः
ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे
प्रथमो ह्येष भूतानां मुखादग्निमजीजायत
उग्रैर्बहुविधैः प्राणान्सङ्क्रुद्धरुद्धस्तर्पणैरपि
विमोक्षयति तुष्टात्मा शरण्यश्शरणागतान्
आयुरारोग्यमैश्वर्यं हितं कामांश्च पुष्कलान्
स ददाति मनुष्येभ्यस्सदा चाक्षिपते पुनः
शक्रादिषु हि देवेषु तस्य चैश्वर्यमुच्यते
स एव स्थापको नित्यं त्रैलोक्यस्य शुभाशुभम्
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते
महेश्वरश्च लोकानां महतामीश्वरश्च सः
बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत्
यस्य देवस्य यद्वक्त्रं समुद्रे बडबामुखम्