युधिष्ठिरः-
दुर्वाससः प्रसादात्ते शङ्करांशस्य माघव
अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि
महाभाग्यं च यच्च तस्य नामानि च महात्मनः
सर्वतो ज्ञातुमिच्छामि शर्वस्य वदतां वर
श्रीभगवान्-
हन्ति ते कीर्तयिष्यामि नमस्कृत्य कपर्दिने
यदवाप्तं महाराज श्रेयो लके बलं यशः
प्रयतः प्रातरुत्थाय यस्त्वधीयेद्विशां पते
प्राञ्जलिश्शतरुद्रीयं नास्य किञ्चन दुर्लभम्
शिवस्सर्वगतो रुद्रस्स्रष्टा यस्तं शृणुष्व मे
प्रजापतिस्तमसृजत्तपसोऽन्ते महातपाः
शङ्करस्त्वसृजत्तात प्रजास्स्थावरजङ्गमाः
नास्ति किञ्चित्परं भूतं महादेवाद्विशां पते
इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः
न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः
विसञ्ज्ञा हतभूयिष्ठा वेपयन्ति पतन्ति च
घोरं च निनदं तस्य पर्जन्यनिनदोपम्
श्रुत्वा विशीर्येद्धृदयं देवानामपि संयुगे
यं चाक्ष्णा घोररूपेण पश्येद्दग्धः पतेदधः
न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः
कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः
प्रजापतेस्तु दक्षस्य यजतो वितते क्रतौ
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा
धनुषा बाणमुत्सृज्य सुघोरं विननाद च
न ते शर्म कुतश्शान्तिं विषादं लेभिरे सुराः
विद्रुतास्सह यज्ञेन कुपिते च महेश्वरे
तेन ज्यातलघोषेण सर्वे लोकास्समाकुलाः
बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः
भयश्चुक्षुभिरे चापश्चकम्पे च वसुन्धरा
विदीर्ण गिरयश्चापि द्यौः पफालेव सर्वशः
अन्धेन तमसा लोकाः प्रावृता न चकाशिरे
प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत
भृशं भीतास्ततश्शान्तिं चक्रुस्स्वस्त्ययनानि च
ऋषयस्सर्वभूतानामात्मनां च हितैषिणः
ततस्सोऽभ्यद्रवद्देवान्क्रुद्रो भीमपराक्रमः
भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत्
पूषणं चाभिदुद्राव परेण वपुषाऽन्वितः
पुरोडाशं भक्षयतो दशनांस्तु व्यशातयत्
ततः प्रणेमुर्देवास्ते वेपमानाश्च शङ्करम्
पुनश्च सन्दधे रुद्रो दीप्तं सुनिशितं शरम्
रुद्रस्य विक्रमं दृष्ट्वा भीता देवास्सहर्षिभिः
ततः प्रसादयामासुश्शर्वं ते विबुधोत्तमम्
जेषुश्च शतरुद्रीयं देवाः कृत्वाऽञ्जलिं ततः
संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः
रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन्
भयेन त्रिदशा राजञ्शरणं च प्रतिपेदिरे
तेन चैव हि कोपेन स यज्ञे सादितोऽभवत्
यद्यच्चापहृतं तत्र तत्ते च प्रतिपेदिरे
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि
आयसं राजतं चैव सौवर्णमपरं तथा
नाशकत्तानि भगवान्भेत्तुं सर्वायुधैरपि
अथ सर्वेऽमरा रुद्रं जग्मुश्शरणमर्दिताः
तत ऊचुर्महात्मानो देवास्सर्वे समागताः
देवाः-
रुद्र रौद्राः करिष्यन्ति पशवः कर्म ते प्रजाः
जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद
श्रीभगवान्-
स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम्
शल्यमग्निं तथा कृत्वा पुङ्खं सोममपाम्पतिम्
ओङ्कारं च धनुः कृत्वा ज्यां च सावित्रिमुत्तमाम्
वेदान्रथवरं कृत्वा विनियुज्य च सर्वशः
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः
शरेणादित्यवर्णेन कालाग्निसमतेजसा
तेऽसुरास्सपुरास्तत्र दग्धा रौद्रेण तेजसा
देव्याश्चावाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः
उमां जिज्ञासमानस्स कोऽयमित्यब्रवीद्धरः
असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः
सवज्रं स्तम्भयामास तं बाहुं परिघोपमम्
न सम्बुबुधिरे चैव देवास्तं भुवनेश्वरम्
सप्रजापतयस्सर्वे तस्मिन्मुमुहुरीश्वरे
ततो ध्यात्वा च भगवान्ब्रह्मा तममितौजसम्
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम्
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः
बभूव स महाबाहुस्सहसा तु यथापुरम्
स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान्
द्वारवत्यां मम गृहे चिरं कालमुवास ह
विप्रकारान्प्रयुङ्क्ते स्म सुबली मम वेश्मनि
तांस्तथा मर्षयित्वाऽहं अक्षमस्तस्य दुस्सहान्
स वै भूमिश्च वायुश्च सोऽश्विनौ स मरुत्पतिः
स चन्द्रमास्स चेशानस्स सूर्यो वरुणश्च सः
स कालस्सोऽन्तको मृत्युस्स तमो रात्र्यहानि च
मासार्धमासा ऋतवस्सत्यं संवत्सरश्च सः
स च धाता विधाता च विश्वकर्मा स सर्ववित्
नक्षत्राणि दिशश्चैव प्रदिशोऽथ ग्रहास्तथा
विश्वमूर्तिरमेयात्मा भगवान्परमद्युतिः
एकधा च द्विधा चैव बहुधा च स एव सः
शतधा सहस्रधा चैव तथा शतसहस्रशः
ईदृशस्स महादेवो भूयश्च भगवानजः
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि