वैशम्पायनः-
पितामहवचश्श्रुत्वा राजंस्ते प्रपितामहः
प्रणम्य पुण्डरीकाक्षमिदं वचनमब्रवीत्
युधिष्ठिरः-
ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन
वेत्ता त्वमस्य चार्थस्य विदित्वाऽऽह पितामहः
श्रीभगवान्-
शृणुष्वावहितो राजन्द्विजानां पूजनं सदा
प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः
यथातत्त्वेन वदतो गुणान्मे कुरुसत्तम
प्रद्युम्नः-
किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन
ईश्वरत्वं कुतस्तात इह चैव परत्र च
सदा द्विजातीन्सम्पूज्य किं फलं तत्र मानद
एतद्ब्रूहि पितस्सत्यं सुमहान्संशयोऽत्र मे
श्रीभगवान्-
इत्युक्तवचनस्तेन प्रद्युम्नेन तदा त्वहम्
प्रत्यब्रवं महाराज यत्तच्छृणु समाहितः
व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे
त्रिवर्गे चापवर्गे च यशश्श्रीरोगशान्तिषु
देवतापितृपूजासु सन्तोष्या एव नो द्विजाः
अस्मिँल्लोके रौक्मिणेय परे व्यष्टिं च सर्वदा
ब्राह्मणप्रभवं सौख्यं न मेऽत्रास्ति विचारणा
ब्राह्मणप्रभवं वीर्यमायुः कीर्तिर्यशो बलम्
दृश्यन्ते लोकपालानां देवब्राह्मणपूजनात्
तान्कथं वै नाद्रियेयं वै ईश्वरोऽस्मीति पुत्रक
मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति
ब्राह्मणा हि महद्भूतमस्मिँल्लोके परत्र च
भस्मीकुर्यर्जगदिदं क्रुद्धः प्रत्यक्षमेव नः
हन्युस्तेऽपि सृजेयुश्च लोकान्लोकेश्वरांस्तथा
कथं तेषु न वर्तेम वयमुत्सुकचेतसः
अवसन्मद्गृहे तात ब्राह्मणो परिपिङ्गलः
चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान्
दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिकं विदुः
सर्वान्सञ्चरते लोकान्ये दिव्या ये च मानवाः
इमां गाथा गायमानश्चत्वरेषु सभासु च
दुर्वाससं वासयेत्को ब्राह्मणं स्वेच्छया गृहे
परिभाषाश्च मे श्रुत्वा को हि दद्यात्प्रतिश्रयम्
यो मां कश्चिद्वासयीत न च मां कोपयीत ह
तं स नाद्रियते कश्चित्तमहं समवासयम्
स तु भुङ्क्ते सहस्राणां बहूनामन्नमेकदा
एकदा त्वधिकं भुङ्क्ते नैच चैति पुनर्गृहान्
अकस्माच्च प्रहसति तथाऽकस्मात्स रोदिति
न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा
अथ स्वावसथं गत्वा शय्यां चास्तरणानि च
अदहत्स महातेजास्ततश्चाभ्यपतत्स्वयम्
अथ मामब्रवीद्भूयस्स मुनिस्संशितव्रतः
कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः
तदैव तु मया तस्य चित्तज्ञेन गृहे जनः
सर्वाण्यन्नानि पापानि भक्ष्याश्चोच्चावचास्तथा
भवन्तु संस्कृतानीह पूर्वमेव विचोदितः
ततोऽहं ज्वलमानस्य पायसं प्रत्यवेदयम्
स भुक्तवांस्तु मां क्षिप्रं ततो वचनमब्रवीत्
क्षिप्रमङ्गानि लिम्पस्व पायसेनैव सोऽप्यहम्
अविमृश्यैव च ततः कृतवानस्मि तत्तथा
तेनोच्छिष्टेन गात्राणि शरीरं च समालिपम्
स ददर्श तदाऽभ्याशे मातरं ते शुभाननाम्
तामपि स्मयमानस्स पायसेन प्रलेपयत्
ततः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत्
तमारुद्य रथं चैव निर्ययौ स गृहान्मम
अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत्
प्रतोदेन तुदन्बालां रुक्मिणीमनु पश्यतः
न तु मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तमः
ततस्स राजमार्गेण महता निर्ययौ बहिः
तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः
तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम्
ब्राह्मणा एव जायेरन्नान्यो वर्णः कथञ्चन
को ह्येनां रथमास्थाय जीवेदन्यः पुमानिह
आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरं विपम्
ब्रह्माहिविषदिग्धस्य नास्ति कश्चिच्चिकित्सकः
तस्मिन्व्रजति दुर्धर्षे प्रापतद्रिक्मिणी पथि
अमर्षयंस्तथा श्रीमान्स्मितपूर्वमचोदयम्
ततः परमसङ्क्रुद्धो रथात्प्रस्कन्द्य स द्विजः
पदातिरुत्पथेनैव प्राद्रवद्दक्षिणामुखः
तमुत्पतन्तं धावन्तमन्वधावं द्विजोत्तमम्
तथैव पायसादिग्धः प्रसीद भगवन्निति
ततः प्रतीतस्तेजस्वी दुर्वासा मामुवाच ह
दुर्वासाः-
जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज
न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत
प्रीतोऽस्मि तव गोविन्द वद कामान्यथेप्सितान्
प्रसन्नस्य च मे तात पश्य व्युष्टिं यथाविधाम्
यावदेव मनुष्याणामन्ने भावो भविष्यति
यथैवान्ने तथैवैष त्वयि भावो भविष्यति
यावच्च लोके पुण्येषु तावत्कीर्तिर्भविष्यति
त्रिषु लोकेषु तावच्च वैशिष्टं फलमाप्स्यसि
सुप्रियस्सर्वलोकस्य भविष्यसि जनार्दन
पायसेन प्रलिप्तेषु गात्रेषु मधुसूदन
तव मृत्युभयं नास्ति यावदिच्छसि चाच्युत
श्रीभगवान्-
न तु पादतले लिप्तस्तस्मात्ते मृत्युरत्र वै
नैतन्मे प्रियमित्येवं स मां प्रीतोऽब्रवीत्तदा
इत्युक्तोऽहं शरीरं स्वं ददर्श श्रीसमायुतम्
रुक्मिणीं चाब्रवीत्प्रीतस्सर्वस्त्रीणां सुरुपताम्
कीर्तिं चानुत्तमां लोके त्वं समाप्स्यसि शोभने
न त्वां जरा पीडयेद्वै वैवर्ण्यं वाऽपि भामिनि
द्रक्ष्यसे पुण्यगन्धांश्च कृष्णमाराधयिष्यसि
षोडशानां सहस्राणां बधूनां केशवस्य ह
वरिष्ठा सर्वसलोक्या च केशवस्य भविष्यसि
तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत्
प्रस्थितश्च सुमहातेजा दुर्वासाः प्रज्वलन्निव
दुर्वासाः-
श्रीभगवान्-
एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव
इत्युक्त्वा स तदा विप्रस्तत्रैवान्तरधीयत
तस्मिन्नन्तर्हिते चैव उपांशु व्रतमादिशम्
यत्किञ्चिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो
एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक
ततः परमहृष्टात्मा प्राविशं गृहमेव च
प्रविष्टश्च गृहे सर्वं अथ पश्यामि तन्नवम्
यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक
ततोऽहं विस्मयं प्राप्तस्सर्वं दृष्ट्वा नवं दृढम्
अपूजयं च मनसा रौक्मिणेय द्विजांस्तदा
इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ
द्विजमुख्यस्य माहात्म्यं सर्वमाख्यातवांस्तदा
तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो
पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा
एवं व्युष्टिमहं प्राप्तो ब्राह्मणस्य प्रसादजाम्
यच्च मामाह भीष्मस्तु तत्सत्यं भरतर्षभ