युधिष्ठिरः-
ब्राह्मणानर्चसे राजन्सततं संशितव्रतान्
कं तु धर्मोदयं दृष्ट्वा तानर्चसि जनाधिप
कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत
तानर्चसि महाबाहो सर्वमेतद्वदस्व मे
भीष्मः-
एष ते केशवस्सर्वमाख्यास्यति महामतिः
व्युष्टिं ब्राह्मणपूजायां दृष्ट्वा व्युष्टिं महाव्रत
बलं श्रोत्रे वाङ्मनश्चक्षुषी च ज्ञानं तथा न विशुद्धं ममाद्य
देहन्यासो नातिचिरान्मतो मे स चातितूर्णं सविताऽद्य याति
उक्ता धर्मा ये पुराणे महान्तो राजन्विप्राणां क्षत्रियाणां विशां च
ये शूद्राणां धर्ममुपासते ते तानेव कृष्णादुपशिक्षस्व पार्थ
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं योऽयं हि यच्चास्य बलं पुराणम्
अमेयात्मा केशवः कौरवेन्द्र स ते धर्मं वक्ष्यति संशयेषु
कृष्णः पृथ्वीमसृजद्वै बभूव वराहोऽयं भीमवपुः पुराणः।
अस्माद्वायुश्चान्तरिक्षं दिवं च दिशश्चतस्रः प्रदिशश्चतस्रः
सृष्टिस्तथैवेयमनुप्रसूता स निर्ममे लोकमिमं पुराणम्
अस्य नाभ्यां पुष्करं सम्प्रसूतं यत्रोत्पन्नस्स्वयमेवामितौजाः
येन च्छिन्नं तत्तमः पार्थ घोरं यत्र तिष्ठन्त्यर्णवास्तच्छयानाः
कृते युगे धर्म आसीत्समग्रस्त्रेताकाले यज्ञमनुप्रपन्नः
बलं त्वासीद्द्वापरे पार्थ कृत्स्नं कलावधर्मः क्षितिमाजगाम
स एव पूर्वं निजघान दैत्यान्स एव देवश्च बभूव सम्राट्
स भूतानां भावनो भूतभव्यस्स विश्वस्यास्य जगतस्सुगोप्ता
यदा धर्मो याति वंशे सुराणां तदा कृष्णो जायते मानुषेषु
धर्मे स्थित्वा स तु वै भावितात्मा परांश्च लोकानपरांश्च पाति
त्याज्यांस्त्यक्त्वा चासुराणां वधेन कार्याकार्ये कारणात्माभिपाती
कृतं करिष्यत्क्रियते च सर्वं देवो राहुस्सोममिवापिबद्वै
शतक्रतुं जित्य स विश्वकर्मा स विश्वसृक्पार्थ स विश्वरूपः
स विश्वधृग्विश्वभुग्विश्वजिच्च स शूलधृक्छोणितभुक्करालः
तं कर्मभिर्विदितं वै स्तुवन्ति रथन्तरैस्सामगाश्च स्तुवन्ति
तं गन्धरावाश्चाप्सरसश्च नित्यमुपतिष्ठन्ते विधिनां पापशान्त्यै
तं राक्षसाश्चापि नमन्ति सर्वे राजन्यानां स विजिगीषुरेकः
तमध्वरे शंसितारस्स्तुवन्ति तं ब्राह्मणा ब्रह्ममन्त्रैस्स्तुवन्ति
तस्मै हविरध्वर्यवः कल्पयन्ते स पौराणीं ब्रह्मगुहा प्रविष्टः
तस्मिन्सत्रे भारतानां ददर्श स चैव गामुज्जाहाराग्र्यकर्मा
विक्षोभ्य दैत्यानुरगांश्च सर्वांस्तस्य भक्षान्विविधान् भक्षयन्ति
तमेवार्हं वाहनं वेदयन्ते तस्यान्तरिक्षं पृथिवी दिशश्च
सर्वं वशे तिष्ठति शाश्वतस्य स कुम्भरेतास्ससृजे वै सुराणाम्
यत्रोत्पन्नमृषिमाहुर्वसिष्ठम्स मातरिश्वा विभुरश्ववाजी
स रश्मिवान्सविता चादिदेवस्तेनासुरा विजितास्सर्व एव
तस्य कान्त्या विजितानीह त्रीणि स देवानां माणुषाणां पितॄणाम्
तमेवाहुर्यज्ञविदः पुराणम् स एव काले विभजन्नुदेति
तस्योत्तरं दक्षिणं चायने द्वे तस्यैवोर्ध्वं तिर्यगधश्चरन्ति
गभस्तयो मेदिनीं ताययन्तस्तं ब्राह्मणा वेदविदो वदन्ति
तस्यादित्यो गामुपयुज्य भाति तमांसीमान्यस्य सदापनीतम्
तमध्वरे वेदविदः पठन्ति स एव युक्तश्चक्रमिह त्रिधातु
सप्ताश्वयुक्तं वहते वै त्रिधामा हिरण्मयस्सप्तगूढस्स संवित्
चतुर्बाहुः पद्मगः पद्मनाभः कृष्णो लोकान्धारयते तथैकः
प्राश्नन्ननश्नंश्च स एव धीरः कृष्णं सदा पार्थ कर्तारमेहि
तदा यदा विश्वगतो महात्मा तृप्तो विभुः खाण्डवे धूमकेतुः
स राक्षसानुरगांश्चावजिभज्य सर्वत्रगस्सर्वमग्नौ जुहोति
स एवायं श्वेतहयान्प्रायच्छन्स एवाश्वै रथ धर्मांश्चकार
त्रिबन्धुरस्तस्य रथस्त्रिचक्रस्त्रिवृच्छिराश्चतुरश्रश्च तस्य
विधायैवं विदधात्पञ्चनाभिस्स निर्ममे गां दिवमन्तरिक्षम्
हृषीकेशोऽमितदीप्ताग्नितेजास्स लङ्घयन्वै सरितो जिघांसन्
स तान्प्रभञ्जन्प्रहर न्नजस्य महेन्द्रादीन्पालयते महाध्वरे
तमृक्सहस्रैः पुरुषं पुराणं सुपर्णामादौ चयने स्तुवन्ति
दुर्वासा वै तेन नान्येन शक्यो गृहे राजन्वासयितुं महौजाः
तमेवाहुर्ऋषिमेकं पुराणं स विश्वकृद्विदधात्यात्मभावान्
वेदान्यो वै वेदयते स वेद्यान्विधींश्च सर्वान्श्रावयते पुराणान्
काम्ये वेदे लौकिके यत्फलं च विष्वक्सेनः सर्वमेतद्ब्रवीमि
ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोकपालास्त्रयी च
त्रयोऽग्नयश्चाहुतयश्च पञ्च सर्वे देवा देवकीपुत्र एव
संवत्सरस्स ऋतुस्सोऽर्धमासस्सोऽहोरात्रस्सोऽयनं सैव मासाः
काष्ठा मुहूर्ताश्च कलाः क्षणाश्च विष्वक्सेनं सर्वमेतत्प्रतीहि
चन्द्रादित्यौ ग्रहनक्षत्रतारास्सर्वाणि दर्शान्यथ पौर्णमासाः
नक्षत्रयोगा ऋतवश्च पार्थ विष्वक्सेनात्सर्वमेतत्प्रसूतम्
रुद्रादित्या वसवोऽथाश्विनौ च साध्या विश्वे मरुतष्षङ्गणाश्च
प्रजापतिर्देवमाताऽदितिश्च सर्वे कृष्णादृषयश्चापि सिद्धाः
वायुर्भूत्वा विक्षिपते च विश्वमग्निर्भूत्वा दहते विश्वरूपः
आपो भूत्वा मज्जयते च सर्वं ब्रह्म भूत्वा सृजते विश्वसङ्घान्
वेद्यं च यो वेदयिता च वेत्ता वेद्यं च यद्वेदयते द वेद
विधिश्च यञ्चाश्रयते विधेयं धर्मे च वेदे च बले च सर्वम्
चराचरं तं केशवं त्वं प्रतीहि वशे स्थितं तस्य समस्तयोनेः
ज्योतिर्भूत्वाऽसौ प्रथमं पुरस्तात्प्रकायन्प्रभया विश्वरूपः
अपस्सृष्ट्वा सोमभूतात्मयोनिः पुराऽकरोत्सर्वमेवाथ विश्वम्
ऋतून्मासान्विविधं कार्यजातं विद्युत्सङ्घैरापतन्तश्च मेघाः
सर्वं कृष्णात्स्थावरं जङ्गमं च विश्वात्माऽसौ विष्णुरेतत्प्रतीहि
विश्वावासं निर्गुणं वासुदेवं सङ्कर्षणं जीवभूतं वदन्ति
ततः प्रद्युम्नमनिरुद्धं चतुर्थमाज्ञापयत्यात्मयोनिर्महात्मा
स पञ्चधा पञ्चगुणोपपन्नं विश्वमेतत्सिसृक्षुः
ततश्चकारावनिं मारुतं च खं ज्योतिरापश्च तथैव चार्थान्
स स्थावरं जङ्गमं चैवमेतच्चतुर्विधं लोकमिमं महात्मा
ततो भूमिं व्यदधात्पञ्चजातं द्यावापृथिव्यग्निरथाम्बुवायू
तेन विश्वं कृतमेतद्धि राजन्स वै द्विजानां पतिरध्यात्मयोनिः
स वै देवानसुरान्मानषांश्च स वै लोकानथ पितॄन्प्रजाश्च
समासेन विविधान्पाति लोकान्सर्वान्सदा भूतान्भूतपतिस्सिसृक्षुः
शुभाशुभं स्थावरं जङ्गमं च विश्वविख्यातात्सर्वमेतत्प्रतीहि
यद्वर्तते यच्च भविष्यतीह सर्वं चेतत्केशवं त्वं प्रतीहि
मृत्युश्चैव प्राणिनामन्तकाले साक्षात्कृष्णश्शाश्वतो देहभाजः
भूतं च यच्चेह न विद्म किञ्चिद्विष्वक्सेनं सर्वमेतत्प्रतीहि
धर्मं प्रशस्तं लोकेषु पुण्यं यच्च शुभाशुभम्
सर्वं तत्केशवोऽचिन्त्यो विपरीतमतो भवेत्
तादृशः केशवो देवो भूयो नारायणः परः
आदिरन्तश्च मध्यं च देशतः कालतो हरिः
जगतां तस्तुषां चैव भूतानां प्रभवाप्ययः