भीष्मः-
वायुः-
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत्
शृणु मे हैहयश्रेष्ठ कर्मात्रेस्सुमहात्मनः
घोरे तमस्ययुध्यन्त सहिता देवदानवाः
अविद्यत शरैस्तत्र स्वर्भानुस्सोमभास्करौ
अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः
देवा नृपतिशार्दूल न देवा बलिनस्तदा
असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः
अपश्यन्त तपस्यन्तमत्रिं विप्रं महावने
अथैनमब्रुवन्देवाश्शान्तक्रोधं जितेन्द्रियम्
देवाः-
असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ
वयं वध्यामहे चापि शत्रुभिस्तमसा वृते
नाभ्यगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो
वायुः-
कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव
एवमुक्तस्तदाऽत्रिस्स तमोनुदभवच्छशी
अपश्यत्सौम्यभावां च सूर्यस्यैव प्रदर्शनम्
दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव
प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे
जगद्धि तिमिरान्धं यत्प्रदीप्तमकरोत्तदा
व्यजयद्दस्युसङ्घांश्च देवतार्थे स्वतेजसा
अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महाऽसुरान्
पराक्रमैस्तेऽपि तदा व्यनिघ्नन्नत्रिसुरक्षिताः
उद्भासितश्च सविता देवास्त्राता हतासुराः
अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा
अद्वितीयेन मुनिना जपता चर्मवाससा
फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम्
तस्यापि विस्तरेणोक्तं कर्मात्रेस्सुमहात्मनः
ब्रवीम्यन्यं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम्
भीष्मः-
वायुः-
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत्
शृणु राजन्महत्कर्म च्यवनस्य महात्मनः
अश्विनोस्सम्प्रतिसंश्रुत्य च्यवनः पाकशासनम्
प्रोवाच सहितो देवैस्सोमपावश्विनौ कुरु
इन्द्रः-
अस्माभिर्न समावेतौ भवेतां सोमपौ कथम्
देवैर्न हि समावेतौ तस्मान्नैवं वदस्व नः
अश्विभ्यां सह नेच्छामि पातुं सोमं महाव्रत
पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे
च्यवनः-
न चेत्करिष्यसि वचो मयोक्तं बलसूदन
मया प्रमथितस्सद्यस्सोमं पास्यसि वै मखे
वायुरुवाच
ततः कर्म समारब्धं हिताय सहसाऽश्विनोः
च्यवनेन ततो मन्त्रैरभिभूतास्सुरास्तदा
ततः कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्च्छितः
उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत्
तथा वज्रेण भगवानमर्षाकुललोचनः
तमापतन्तं दृष्ट्वैव च्यवनस्तपसाऽन्वितः
अद्भिस्सिक्त्वा स्तम्भयति सवज्रं सहपर्वतम्
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव हि
मदं नामाहुतिमयं व्यादितास्यं महामुनिः
तस्य दन्तास्सहस्रं तु बभूवश्शतयोजनाः
द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः
हनुस्तस्याभवद्भूमावास्यं चास्यास्पृशद्दिवम्
जिह्वामूले स्थितास्तस्य सर्वे देवास्सवासवाः
तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे
ते सम्मन्त्र्य ततो देवा मदस्यास्यगतास्तदा
अब्रुवन्सहिताश्शक्रं प्रणमास्मै द्विजातये
अश्विभ्यां सह सोमं च पिबाम विगतज्वराः
स तु तं प्रणमच्छक्रश्च्यवनश्च चकार तत्
वचनं कृतवन्तौ तावश्विनौ सोमपायिनौ
तदा प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः
अक्षेषु मृगयायां च पानेषु स्त्रीषु च वीर्यवान्
एतैर्दोषैर्नरा राजन्क्षयं यान्ति न संशयः
तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेत्
एतत्ते च्यवनस्यापि कर्मि राजन्प्रकीर्तितम्
ब्रवीम्यन्यं ब्रूहि वा त्वं ब्राह्मणात्क्षत्रियं वरम्