भीष्म उवाच
वायुः-
इत्युक्तस्स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत्
शृणु राजन्नगस्त्यस्य महात्म्यं ब्राह्मणस्य ह
असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः
यज्ञाश्चैषां हृतास्सर्वे पितृभ्यश्च स्वधा तथा
कर्मेज्या मानवानां च दानवैर्हैहयर्षभ
भ्रष्टैश्वर्या यथा मूकाश्चेरुः पृथ्वीमिति श्रुतिः
ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम्
ददृशुस्तेजसाः युक्तमगस्त्यं विपुलव्रतम्
अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम्
इदमूचुर्महात्मानं वाक्यं काले जनाधिप
देवाः-
दानवैर्युधि भग्नाश्च तथैश्वर्याच्च भ्रंशिताः
तदस्मान्नोऽस्मात्तीव्रात्त्राहि त्वं मुनिपुङ्गव
वायुः-
इत्युक्तस्स तदा देवैरगस्त्यः कुपितोऽभवत्
प्रजज्वाल च तेजस्वी कालाग्निरिव सङ्क्षये
तेन दीप्ताग्निजालेन निर्दग्धा दानवास्तदा
अन्तरिक्षान्महाराज न्यपतन्त सहस्रशः
दह्यमानास्तु ते दैत्या अगस्त्यस्य च तेजसा
उभौ लोकौ परित्यज्य गताः काष्ठां हि दक्षिणाम्
बलिस्तु यजते यज्ञमश्वमेधं महीं गतः
येऽन्ये स्वस्था जलस्थाश्च तेन दग्धा महासुराः
त्यक्तलोकाः पुनः प्राप्तास्सुरैश्शान्तभयैर्नृप
अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि
इत्युक्तः आह देवान्स न शक्नोमि महीं गतान्
दग्धुं तपो हि क्षीयेत न धक्ष्यामीति पार्थिव
एवं दग्धा भगवता दानवास्स्वेन तेजसा
अगस्त्येन तदा राजंस्तपसा भावितात्मना
भीष्मः-
ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयाऽनघ
ब्रवीम्यन्यं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम्
इत्युक्तस्स तदा तूष्णीमभूद्वायुस्तमब्रवीत्
वायुः-
शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः
वैखानसविधानेन गङ्गातीरं समाश्रिताः
आदित्यास्सत्रमासन्त सरो वैखानसं प्रति
वसिष्ठं मनसा ज्ञात्वा गत्वा तत्त्वस्य गोचरम्
यजमानांस्तु तान्दृष्वा व्यग्रान्दीक्षानुकर्शितान्
हन्तुमैच्छन्ति शैलाभा बलिनो नाम दानवाः
अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः
हता हता वै ते तत्र जीवन्त्याप्लुत्य दानवाः
ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान्
विक्षोभयन्त सलिलमुत्थितं शतयोजनम्
अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव हि
ततस्तैरर्दिता देवाः वासिष्ठं शरणं ययुः
ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः
जनान्तान्दुःखितान्दृष्ट्वा आनृशंस्यपरो मुनिः
अयत्नेनादहत्सर्वाञ्ज्वलता स्वेन तेजसा
कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः
आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः
सरो भिन्नं तया नद्या सरयूस्सा ततोऽभवत्
हतास्तु बलिनो यत्र स देशो बलिनोऽभवत्
एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः
ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना
एतत्कर्म वसिष्ठस्य कथितं हि मयाऽनघ
ब्रवीम्यन्यं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम्